समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 338, कुल 726 में से
संदर्भ में पढ़ेंरुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । २७३ बहिरन्तश्चतुर्द्वारः श्रीकूट^१ इति नामतः । श्रीकूटः । षड्दारुकसमायुक्तै^२ प्राग्द्वारस्त्वयमेवं^३ चेत् ॥ ३७ ॥ प्रासादस्तम्भगर्भः^४ स्यात् तदोष्णीषोऽभिधीयते । उष्णीषः । चतुरंशकविस्तीर्णं षडंशविहितायति ॥ ३८ ॥ पीठं शालागृहस्योक्तं सशालानिर्गमं शुभम् । मध्यादपरतस्तस्य द्विभागायतविस्तृतम् ॥ ३९ ॥ विधेयं गर्भभवनमलिन्दकपरिष्कृतम् । कार्या तस्याग्रतः सीमा भागद्वितयमायता ॥ ४० ॥ भागमेकं च विस्तीर्णा चतुःस्तम्भोपशोभिता । तदग्रतोऽपरा सीमा कार्या भागान् षडायता^८ ॥ ४१ ॥ तिर्यक्स्था भांगविस्तीर्णा^९ प्रवेशद्वयशोभिता^१० । एष^११ शालागृहः( ?) स्तम्भैर्द्वाविंशत्या समावृतैः^१२ ॥ ४२ ॥ प्राग्रीववेदिकाजालपक्षसोपानकैः शुभैः । शालास्यः । पञ्चभागोन्मिते^१३ न्यासे क्षेत्रभागाष्टकायते ॥ ४३ ॥ पीठं कुर्यादुभैयतः^१४ ससोपानं शिलाचितम् । मध्यादपरभागेऽस्य देवागारं निवेशयेत् ॥ ४४ ॥ वि(द्वि)भागायामविस्तारं चतुरश्रं सुसंहितम्^१५ । पादोनभागविस्तारमध्यर्धं भागमुच्छ्रितम् ॥ ४५ ॥ तस्य^१६ कार्यं मुखं^१७ मध्ये पार्श्वतश्चयशोभितम् । सचया निर्गता सीमा द्वौ भागौ त्रींस्तथायथा(ता) ॥ ४६ ॥ १ द. श्री । २ क. ख. ग. क्तं । ३ क. व. च; द. ॰मेव न् । ४ ख. ग. र्भस्य; द. गर्भस्य तदष्णीषोऽभि॰ । ५ द. ह । ६ द.पीठशाल । ७ क. ख. ग. यस्त; द. कार्यस्तस्याग्रवः शीवा भाग° । ८ द. पजायता । ९ द. ना । .१० ख. ग. द. ताः । ११ क. ख. ग. द. षा । १२ ख. ग. ता; द. समानावृतः । १३ द. ॰गो निमित्न्यां॰ । १४ द. कुर्याद्द्वयतकार्यो । १५ ख. ग. द. ह । १६ ख. स्य मध्ये मुखं कार्यं पा । १७ द. मु । वा. ३५