समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । २७३ बहिरन्तश्चतुर्द्वारः श्रीकूट^१ इति नामतः । श्रीकूटः । षड्दारुकसमायुक्तै^२ प्राग्द्वारस्त्वयमेवं^३ चेत् ॥ ३७ ॥ प्रासादस्तम्भगर्भः^४ स्यात् तदोष्णीषोऽभिधीयते । उष्णीषः । चतुरंशकविस्तीर्णं षडंशविहितायति ॥ ३८ ॥ पीठं शालागृहस्योक्तं सशालानिर्गमं शुभम् । मध्यादपरतस्तस्य द्विभागायतविस्तृतम् ॥ ३९ ॥ विधेयं गर्भभवनमलिन्दकपरिष्कृतम् । कार्या तस्याग्रतः सीमा भागद्वितयमायता ॥ ४० ॥ भागमेकं च विस्तीर्णा चतुःस्तम्भोपशोभिता । तदग्रतोऽपरा सीमा कार्या भागान् षडायता^८ ॥ ४१ ॥ तिर्यक्स्था भांगविस्तीर्णा^९ प्रवेशद्वयशोभिता^१० । एष^११ शालागृहः( ?) स्तम्भैर्द्वाविंशत्या समावृतैः^१२ ॥ ४२ ॥ प्राग्रीववेदिकाजालपक्षसोपानकैः शुभैः । शालास्यः । पञ्चभागोन्मिते^१३ न्यासे क्षेत्रभागाष्टकायते ॥ ४३ ॥ पीठं कुर्यादुभैयतः^१४ ससोपानं शिलाचितम् । मध्यादपरभागेऽस्य देवागारं निवेशयेत् ॥ ४४ ॥ वि(द्वि)भागायामविस्तारं चतुरश्रं सुसंहितम्^१५ । पादोनभागविस्तारमध्यर्धं भागमुच्छ्रितम् ॥ ४५ ॥ तस्य^१६ कार्यं मुखं^१७ मध्ये पार्श्वतश्चयशोभितम् । सचया निर्गता सीमा द्वौ भागौ त्रींस्तथायथा(ता) ॥ ४६ ॥ १ द. श्री । २ क. ख. ग. क्तं । ३ क. व. च; द. ॰मेव न् । ४ ख. ग. र्भस्य; द. गर्भस्य तदष्णीषोऽभि॰ । ५ द. ह । ६ द.पीठशाल । ७ क. ख. ग. यस्त; द. कार्यस्तस्याग्रवः शीवा भाग° । ८ द. पजायता । ९ द. ना । .१० ख. ग. द. ताः । ११ क. ख. ग. द. षा । १२ ख. ग. ता; द. समानावृतः । १३ द. ॰गो निमित्न्यां॰ । १४ द. कुर्याद्द्वयतकार्यो । १५ ख. ग. द. ह । १६ ख. स्य मध्ये मुखं कार्यं पा । १७ द. मु । वा. ३५
२७४ समराङ्गणसूत्रधारे चतुरश्रा चतुःस्तम्भा तदग्रे भागविस्तृता । पञ्चभागायता तिर्यक् कार्या सीमा तथापरा ॥ ४७ ॥ द्वात्रिंशदत्र कर्तव्याः स्तम्भाः सर्वैकयसङ्ख्यया । बहिःपरिसरो गर्भात् ससीग्नो भागविस्तृतः ॥ ४८ ॥ एवं स्याद् वेदिकाजालरूपादिभिरलङ्कृतः । बहिर्व(श्र)योच्छ्रितश्चैष प्रासादो गजयूथपः ॥ ४९ ॥ गजयूथपः । षड्भागभाजिते क्षेत्रे चतुरश्रे समन्ततः । गर्भो द्विभागिकैः कार्यो द्वारं भागसमुच्छ्रितम् ॥ ५० ॥ भागार्धं द्वारविस्तारः प्रासादस्योच्छ्रितिं पुनः । कुर्वीत चतुरो भागान् छादयेच्चित्रकूटवत् ॥ ५१ ॥ कार्या द्विभागिकाः शालाः सालिन्दास्तस्य बाह्यतः । बहिर्भित्तिपरिक्षिप्ताश्चतुर्भागायताः शुभाः ॥ ५२ ॥ द्वौ द्वौ गवाक्षकौ स्तम्भाः प्रतिशालं भवन्ति षट् । चतुःस्तम्भघृतैर्युक्तः कार्या वा धार्मिकालयेः ॥ ५३ ॥ नन्द्यावर्तोऽयमेवं स्यात् सप्राग्रीवचतुष्टयः । प्रागु(?)द्वारक्षणोपेतः प्रासादः शुभलक्षणः ॥ ५४ ॥ नन्द्यावर्तः । क्षेत्र(त्रे)षड्भागविस्तारे दशभागकृतायतौ । मध्यादपरभागेऽस्य देवकोष्ठं निवेशयेत् ॥ ५५ ॥ चतुरंशप्रतिन्यासं चतुरश्रं समन्ततः । द्वारं तस्य विधातव्यं भागमध्यर्धमुच्छ्रितम् ॥ ५६ ॥ पादोनं भागविस्तारं सिंहवक्त्रविभूषितम् । सीमा तस्याग्रतः कार्या देवकोष्ठेन सम्मितां ॥ ५७ ॥ १ द. ॰विस्मृताः । २ ख. ग. द. सर्वे व्यसंख्यया । ३ ख. ज्झि; द. ष्पिता । ४ द. कार्ता । ५ द. र्द्धं । ६ द. लां । ७ ख. ग. द. क्ता । ८ क. गस्थादे; ख. ग. गस्थ्यदै; द. मघादपरभागस्थां । ९ ख. ग. व्या; द. ॰श्ययतिव्यासं । १० द. तः ।
रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । २७५ स्तम्भैः षोडशभिर्युक्ता भागद्वितयमुच्छ्रितैः । ससीम्नो देवकोष्ठस्य समन्ताद् भित्तिवेष्टितः ॥ ५८ ॥ अलिन्दो भागिकः कार्यो गवाक्षैरुपशोभितः । (तत्)सीम्नोश्चाग्रतः पार्श्वे षड्दारुकयुता बहिः ॥ ५९ ॥ कार्या द्विरंशाः प्राग्रीवा भागिकालिन्दवेष्टिताः । द्विद्विस्तम्भधृताः सर्वे पार्श्वतश्चाश्रयशोभिताः ॥ ६० ॥ अलिन्दास्तु चतुःस्तम्भाः कार्याः प्राग्रीवकाग्रतः । अवतंसक इत्येष सर्वलक्षणसंयुतः ॥ ६१ ॥ प्रासादः कथितः सम्यक् अवतंसः । स्वस्तिकः प्रोच्यतेऽधुना । चतुरश्रीकृते क्षेत्रे षड्भागप्रविभाजिते ॥ ६२ ॥ प्रासादं कल्पयेन्मध्ये द्विभागायामविस्तृतम् । द्वारपाशोऽस्य भागार्धविस्तृतो भागिकोदयः ॥ ६३ ॥ गर्भवेश्म चतुःस्तम्भमलिन्दो भागिको बहिः । तस्य स्युर्द्वादश स्तम्भा भागिकोऽलिन्दकोऽपरः ॥ ६४ ॥ विंशतिस्तम्भसंयुक्तो विधातव्यः समन्ततः । चयावृतंश्च पुरतो भागो वाष्ठधरान्वितः ॥ ६५ ॥ भागमेकैकमुत्सृज्य कर्णाभ्यां भागविस्तृतौ । भागिकोच्छ्रायनिष्कासौ कार्यौ प्राग्रीवकौ पुनः ॥ ६६ ॥ बाह्यतो भित्तिसंश्लिष्टौ त्रिदिशं सगवाक्षकौ । स्वस्तिकोऽयं समाख्यातः प्रासादश्चित्रलक्षणः ॥ ६७ ॥ स्वस्तिकः । १ द. आ । २ ख. ग. द. श्रायतः । ३ द. पार्श्वयोश्चषद्दारुकयुचां । ४ क. द्व; ५ द. आ । ६ द. पाः । ७ द. सृ । ८ क. धै । ९ द. ०विस्मृतौ । १० क. द. ०तं । ११ द. वाष्टवरांचितः । १२ द. सृ° । १३ द. का. आय । १४ द. ०संश्निग्धौ । १५ क. दं, ख. ग. द. द । १६ द. ०क्षि° ।
अथाभिधीयतेऽधुना प्रासादः § शुभलक्षणः । षड्भागभाजिते क्षेत्रे चतुरश्रे समन्ततः ॥ ६८ ॥ द्विभागायामविस्तारं मध्ये गर्भगृहं भवेत् । भागद्वयोच्छ्रितैः स्तम्भैर्युतं व्यक्तैः सलक्षणैः ॥ ६९ ॥ निष्क्रान्तेषु बहिर्भागे गर्भपादेषु योजयेत् । तोरणानि मनोज्ञानि ककुप्सु चतसृष्वपि ॥ ७० ॥ गर्भस्तम्भप्रमाणे न तानि स्तम्भद्वयेन वा । समुत्क्षिप्तानि युक्तानि कलशै रविमण्डलैः ॥ ७१ ॥ पल्लवैः पत्रजात्यादिविन्यासैश्चाप्यनेकंशः । भूषितास्ये पुनर्मूर्ध्नि मकराणां मुखैरपि ॥ ७२ ॥ स्तम्भयोरन्तरे दद्यादुभौ मकरपूरिमौ । अन्योन्याभिमुखे श्लिष्टे कुर्यान्मकरयोर्मुखे ॥ ७३ ॥ चतुर्णामपि निर्दिष्टैस्तोरणानां मया विधिः । अलिन्दो भागिकश्चान्यो बहिर्भागे प्रकीर्तितः ॥ ७४ ॥ स्युर्भागिकान्यलिन्दान्ते धार्मिकायतनानि च । वेष्टितानि बहिर्भित्या सम्मुखानि परस्परम् ॥ ७५ ॥ धार्मिकालयभित्तीनां भूमिर्या बाह्यतो भवेत् । तस्याः षड्दारुकाणि स्युर्भागमात्रोच्छ्रितानि च ॥ ७६ ॥ प्राग्रीवकैः ससोपानैर्दिक्कवत्रैस्तानि भूषयेत् । अपरस्याः पुनर्भित्तेर्भागद्वयविनिस्सृतम् ॥ ७७ ॥ मध्ये द्विभागविस्तीर्णं देवकोष्ठं निवेशयेत् । द्वारपाशं च कुर्वीत तस्योक्तं(र्ध्वं) भागमुच्छ्रितम् ॥ ७८ ॥ तथा भागार्धविस्तारमित्येष क्षितिभूषणः । प्रासादः कीर्तितः सम्यक् सर्वलक्षणलक्षितः ॥ ७९ ॥
१ द. पट्टेपु । २ ख. ग. द. त्रि। ३ द. वेय । ४ ख. खों; द. खो । ५ द. ष्टा । ६ द. आ । ७ द. स्फगिकान्य°। ८ द. वि°। § 'क्षितिभूषण' इति पाठः । स्यान् ।
रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । २७७ क्षितिभूषणः । क्षेत्रस्य चतुरश्रस्य भागान् द्वादश कल्पयेत् । मध्ये गर्भं चतुःस्तम्भं तस्य कुर्याद् द्विभागिकम् ॥ ८० ॥ तद्बहिर्भागिकोऽलिन्दो द्वादशस्तम्भगवान् भवेत् । मध्येऽपरस्यां यौ स्तम्भौ ताभ्यां कुर्वीत तोरणम् ॥ ८१ ॥ अलिन्दो भागिकः कार्यो भित्त्या भागिकया वृतः । प्राच्यां षड्दारुकं¹ मध्ये गर्भव्यासोन्मितायति ॥ ८२ ॥ तृतीयो भागिकोऽलिन्दः स्याद् भित्त्या परिवेष्टितः । चतुर्भागायतं भूयस्तत्र षड्दारुकं भवेत् ॥ ८३ ॥ प्राग्रीवं भागविष्कम्भं कुर्याद् भागद्वयायतम् । अग्रतः स्तोभितं स्तम्भैर्भागान्तस्थचयावृतम् ॥ ८४ ॥ यथा प्राच्यां तथोदीच्यां याम्यायामपि कीर्तितम् । दिशि प्रतीच्यां तु पुनर्द्वितीयालिन्दकाद् बहिः ॥ ८५ ॥ द्विभागायामविष्कम्भं देवकोष्ठं निवेशयेत् । सपक्षद्वारकं श्रीमद् द्वारपाशोपशोभितम् ॥ ८६ ॥ भागिकोऽलिन्दकस्तस्माद् बहिर्भित्त्याभिवेष्टितः । बहिश्चयावृतो वा स्याद् गवाक्षैर्वा विभूषितः ॥ ८७ ॥ पृथिवी विजयते यस्मात् तेनासौ पृथिवीजयः । भूजयः । यदा पृथ्विजयस्यैव कर्णप्राग्रीवकावुभौ ॥ ८८ ॥ कोणेषु भागिकौ स्यातां विज्ञेयो विजयस्तदा । विजयः । अयं समन्तादुत्क्षिप्तो बाह्यालिन्दं विना यदा ॥ ८९ ॥ मध्यमालिन्दसौधस्थ( स्थ )कर्णप्रासादकैश्चितः । प्रथमालिन्दगर्भौ च समुत्क्षिप्ततरौ ततः ॥ ९० ॥ स्यातां छाद्यद्वयच्छन्नौ तदा नन्दोऽभिधीयते । १ ग. कां । २ क. र्भं ।
२७८ समराङ्गणसूत्रधारे नन्दः । चतुरश्रीकृते क्षेत्रे दशभागविभाजिते ॥ ९१ ॥ चतुरश्रो भवेन्मध्ये देवकोष्ठो द्विभागिकः । द्वारबन्धोऽस्य भागोच्चः कार्यो भागार्धविस्तृतः ॥ ९२ ॥ स्याद् बहिर्द्वादशधरोऽलिन्दको¹ देवकोष्ठतः । भागिकः स च विज्ञेयो भित्तियुक्तस्ततोऽपरः ॥ ९३ ॥ अयं द्विभागिकैर्युक्तः प्राग्रीवैर्भागनिर्गमैः । तथा तृतीयोऽलिन्दः स्यात् समन्ताद् भित्तिवेष्टितः ॥ ९४ ॥ प्राग्रीवकैश्चतुःस्तम्भैः सप्रवेशैर्विभूषितः । भागिकी स्याद् बहिर्भित्तिरितरा तु धरैः समा ॥ ९५ ॥ इत्येष श्रीतरुर्नाम प्रासादः परिकीर्तितः । श्रीतरुः । अस्यैव स्तम्भगर्भस्य द्वितीयालिन्दभित्तिषु ॥ ९६ ॥ षड्दारूणि विधेयानि पूर्वरूपव्यवस्थिते² । द्वौ द्वौ प्राग्रीवकौ कार्यौ तृतीयालिन्दकाद् बहिः ॥ ९७ ॥ तौ च द्वि(भागा)न्तरितौ सर्वतो भागनिर्गतौ । एवं पञ्चांशता (?) स्तम्भैर्द्वाभ्यां च परिवेष्टितः ॥ ९८ ॥ चतुःस्तम्भैः सप्रवेशैः समन्तादुपनिर्गमैः । प्रासादोऽयं समाख्यातो नामतः प्रमदाप्रियः ॥ ९९ ॥ प्रमदाप्रियः । भागविस्तारविष्कम्भमस्य प्राग्रीवकं यदा । भिन्नालिन्दाग्रतस्तिर्यग् द्वे शाले तन्मुखं शुभम् (?) ॥ १०० ॥ द्वितीयालिन्दकस्थाने कर्णप्रासादकैर्युतः । एवं व्यामिश्रसंज्ञोऽयं प्रासादः परिकीर्तितः ॥ १०१ ॥
१ क. ग. तो । २ क. ते, ख. तैः ।
रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । २७९ व्यामिश्रः । विजयस्यास्य च यदा कर्णलाङ्गलकैर्युता । भवेद् भित्तिस्तदा हस्तिजातीय इति कथ्यते ॥ १०२ ॥ हस्तिजातीयः । सीमाप्राग्रीवभूमीषु यदा स्युः पृथिवीजये । द्विभागाश्चाभितोऽलिन्दास्तिर्यक्शालामुखेषु च ॥ १०३ ॥ अलिन्दे पश्चिमा शाला सर्व(र्वा)शालोकना शुभा । षड्दारुकं तथैवात्र चतुर्भागायतं भवेत् ॥ १०४ ॥ पूर्ववत् सर्वमन्यच्च कुबेरः स तदा भवेत् । कुबेरः । प्रासादः कथ्यतेऽन्यश्च सम्प्रतीह धराधरः ॥ १०५ ॥ कुबेरोपत्तरोक्षिप्तः(?) कर्णप्रासादभूषितः । मध्यद्वारान्वितः श्रीमान् धराधर इति स्मृतः ॥ १०६ ॥ वसुधाधरः । यत्रायतश्चित्रकूटस्तस्माद् यः सर्वतोदिशम् । धराधरतदम्भासः(?) सर्वतोभद्र उच्यते ॥ १०७ ॥ सर्वतोभद्रः । कर्णप्राग्रीवकौ द्वौ द्वौ शालाप्राग्रीवंकाअ(व)पि । स्यातां यर्दास्य प्रोक्तोऽसौ विमानाख्यस्तदा शुभः ॥ १०८ ॥ विमानाख्यः । विमानंपीठे निर्मुक्तः शालाभिः सर्वतो वृतः । अन्योन्यशालासम्बन्धे विमानो न्यस्यते यदा ॥ १०९ ॥ कर्णप्रासादकोपेताः कोणैः शालोज्झितैर्युतः । स विमुक्तकोणः स्यात् प्रासादोऽत्यर्थशोभितः ॥ ११० ॥ १ ख. ॰वेद्भस्तितदा । २ क. क्तालमु । ३ क. ख. ग. आ । ४ ख. ग. न्दो । ५ क. धाग्रभश्चि । ६ द. ग्री । ७ द. ग्री । ८ द. द्य । ९ क. नं । १० क. त्ता । ११ ख. ग्रीवको; द. ग्रीव° ।
२८० समराङ्गणसूत्रधारे मुक्तकोणः , प्रासादाश्चतुरश्राः स्वैर्विशेषैर्वर्णिताः पृथक् । इदानीमभिधीयन्ते वृत्ताः स्वैः स्वैर्विशेषणैः ॥ १११ ॥ तत्रादौ वलयाकारो वलयः स च कथ्यते । समन्ताद् वर्तिते क्षेत्रे चतुर्भागविभाजिते ॥ ११२ ॥ कुर्यात् सारोहणं पीठं सार्धभागोच्छ्रितं शुभम् । परिक्षिप्तं गजमुखैर्मकर(रा)स्याम्बुनिर्गतम् ॥ ११३ ॥ बहिर्भागसमोपेतस्तस्मिन् कार्यः सुरालयः । पादोनविस्तृतिर्द्विघ्नद्वारोच्छ्रायविभूषितः ॥ ११४ ॥ तस्याष्टस्तम्भकोऽलिन्दो बहिर्वलय इत्यसौ । वृत्तच्छायः सिंहकर्णैस्तथा जालकरूपवान् ॥ ११५ ॥ † भूलवयः । प्राग्रीवका(वृतः) स स्याद् यद्वा §स्तम्भोच्छ्रैयानतः । तदैष *दुन्दुभिः प्रोक्तस्त्रिभिस्तैः प्रान्त उच्यते ॥ ११६ ॥ अयमेव चतुर्भिः स्यात् पद्मः प्राग्रीवकैः शुभैः । स्तम्भैश्चतुर्भिस्तस्यैव यदा पश्चान्निवेश्यते ॥ ११७ ॥ मध्यवृत्तो गर्भकोष्ठो भित्तिश्चोभयतः स्थितां । स कान्त इति विख्यातः प्रासादो वर्तुलाकृतिः ॥ ११८ ॥ चत्वारि वलयस्यैव यत्र द्वाराण्यलिन्दकः । स्याच्चतुर्विंशतिस्तम्भैर्द्वितीयो भागसम्मितः ॥ ११९ ॥ प्राग्रीवकाश्च स्तम्भाभ्यां द्वाभ्यां द्वाभ्यां समन्विताः । चत्वारो यत्रं स प्रोक्तः प्रासादोऽत्र चतुर्मुखः ॥ १२० ॥
१ द. र्तं । २ क. तिर्द्विघ्न । ३ क. °र्गतदीयजा°; द. त । ४ द. ग्री । ५ ख. च्छ्रय- द्वयान्वितः; द. य. द्वयान्वित । ६ ख. द. तदेव । ७ क. ख. द. °श्येत् । ८ द. ताः । ९ द. ग्री । १० द. स्य । † लक्ष्ये लक्षणे च वलय इत्ययं पठितः । §स्तम्भद्वयान्वितः इति पाठः स्यात् । * इत आरभ्य तत्तत्प्रासादनामानि पृथक्तया मातृकायां न लिखितानि ।
रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । २८१ अस्यैवैकं यदा द्वारं प्राग्रीवोऽलिन्दवेष्टितः । एक एव तथाचान्यः प्राग्रीवस्तस्य चाग्रतः ॥ १२१ ॥ ख्यातो माण्डूक इत्येष वृत्तप्रासादसत्तमः (वृत्तः ?) । दिक्कोणेषु यदास्यैव भवेत् प्राग्रीवकल्पना ॥ १२२ ॥ प्रासादोऽयं तदा कूर्मसंज्ञः स्यादपराजितः । कूर्मस्यैव यदा दिक्षु स्तम्भैरष्टाभिरष्टभिः ॥ १२३ ॥ प्राग्रीवकाः प्रकल्प्यन्ते चत्वारोऽलिन्दवेष्टिताः । प्र.ग्रीवकास्तिर्यगग्रे भवन्त्यन्ये तदग्रतः ॥ १२४ ॥ षोडशस्तम्भयुक्तस्य मध्यभागे यदा भवेत् । † जानीयाद्दोषविज्ञेयाः प्राग्रीवहरितोत्तमः (?) ॥ १२५ ॥ इति वृत्ताः समाख्याताः प्रासादा नामलक्षणैः । चतुरश्रायतान् ब्रूमः प्रासादानिह साम्प्रतम् ॥ १२६ ॥ अष्टभागायते क्षेत्रे चतुरंशकविस्तृते । द्विभागसार्धभागैकभागोऽयं पीठे इष्यते ॥ १२७ ॥ पश्चिमं भागमुत्सृज्य देवकोष्ठं द्विभागिकम् । तस्मिन् निवेशयेत् सीमा स्यादस्याग्रेऽष्टभिर्घटैः ॥ १२८ ॥ ससीम्नो देवकोष्ठस्यै भागिकालिन्दको बहिः । युक्तो धराणां विंशत्या वेदिकाजालवेष्टितः ॥ १२९ ॥ प्राग्रीवकस्य तस्याग्रे स्तम्भद्वितयभूषितः । द्विच्छाद्यच्छादितः श्रीमान् सिंहकर्णैरलङ्कृतः ॥ १३० ॥ प्रासादोऽयं भवो नाम विशालः कथ्यतेऽधुना । यदास्यैवं सनिष्क्रान्ते सीमायामे च वर्ध(र्धि)ते ॥ १३१ ॥ १ द. °दां । २ क. वा । ३ क. ख. न्डू; द. मांडूक । ४ द. ची । ५ क. कत्र्तः; द. क । ६ ट. र्मा । ७ द. ता । ८ क. °णैः । वृत्तप्रासादः । चं । ९ ख. द. टमिव्य; । १० द. र्हं । ११ द. °ष्ठः स्यात् । १२ द. मु । १३ द. वाश । १४ क. ख. द. योगे च वर्धते । † इह कियांश्चिद् ग्रन्थो गलित इव भाति, यतो वृत्तप्रासादभेदेषु लक्ष्ये परिगणितयोरुपान्त्ययोः तालीगृहोलूपीनामकयोर्लक्षणं न दर्शितम्, अत्र दृश्यमानस्य च श्लोकार्धस्य नार्थसामञ्जस्यम् । वा. ३६
२८२ समराङ्गणसूत्रधारे वलभ्यौ पार्श्वयोः स्यातां विशालाख्यस्तदा भवेत् । विशालस्य यदा गर्भे भित्तिर्भवति दिक्त्रये ॥ १३२ ॥ द्वौ द्वौ गवाक्षकौ चापि साम्मुख्यैः स भवेत् तदा । प्राग्रीवास्त्रिदिंशं तस्य गर्भकोष्ठायता यदा ॥ १३३ ॥ हित्वा वलभ्यौ प्राग्रीवौ विधीयेते तथापरौ । कर्णेषु भागमेकैकं त्यक्त्वा स्यात् प्रभवस्तदा ॥ १३४ ॥ एतस्यैव मुखे स्यातां यदा प्राग्रीवकावुभौ । पार्श्वयोरपरौ द्वौ द्वौ प्राग्रीवौ भवतॊ यदा ॥ १३५ ॥ कर्णेषु भित्तयश्च स्युस्तदा स्याच्छिबिराग्रहः । यदास्यैव मुखे शाला भागद्वितयविस्तृतां ॥ १३६ ॥ आयामेन च षड्भागा प्राग्रीवौ द्वौ तदग्रतः । द्वौ द्वौ गवाक्षकौ स्यातां तद्भित्त्योरुभयोरपि ॥ १३७ ॥ सीमायां द्वादश स्तम्भा मुखशालस्तदा भवेत् । अलिन्दो भागिकः कार्यों विशालंस्यैव बाह्यतः ॥ १३८ ॥ प्राग्रीवभूमिषु वृतो भित्त्या च सगवाक्षकः । अग्रतः सहितः स्तम्भैः षड्भिश्च क्रियते यदा ॥ १३९ ॥ द्विशाल इति विख्यातः प्रासादो जायते तदा । यदास्यैव विधीयन्ते स्तम्भाः सर्वे समन्ततः ॥ १४० ॥ प्राग्रीवकौ चोभयतो गृहराजस्तदा भवेत् । सर्वस्यैव (?) यदालिन्दः स्यादन्यो भागविस्तृतैः ॥ १४१ ॥ सीमान्तविस्तृते स्यातां वलभ्यौ भागनिस्सृते । भित्तिर्विधीयते शेषा गवाक्षैरुपशोभिता ॥ १४२ ॥ मुखे षड्दारुकं च स्यात् तदा स्यादमलाभिधः । एकादशायते क्षेत्रे तथा षड्भागविस्तृते ॥ १४३ ॥ १. क. त । २ क. स्यात् स; द. सोऽमुख्या । ३ द. द । ४ द. य । ५ द. त । ६ द. वो । ७ द. ते । ८ द. त् स्थविरग्रहः । ९ द. ताः । १० क. ॰लाल्ये च बा॰ । ११ क. तौ । १२ क. वि । १३ द. स्तृ॑ । १४ द. भ्यो । १५ क. विस्तृते । १६ द. षड्ढारकं ।
रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । १८३ मुक्त्वा भागद्वयं पश्चाद् देवकोष्ठं निवेशयेत् । भागं मुक्त्वाग्रतः कुर्यात् सीमां भागचतुष्टयम् ॥ १४४ ॥ अष्टस्तम्भास्ततोऽलिन्द विंशतिस्तम्भभागिकोः । भागिकः परितोऽलिन्दोऽष्टाविंशतिघरोऽपरः ॥ १४५ ॥ द्विद्विस्तम्भयुताः कार्याः प्राग्रीवाः कोष्ठजास्त्रयः । सीमासँमे वलभ्यौ च प्राग्रीवौ मध्यतस्तयोः ॥ १४६ ॥ द्विद्विस्तम्भौ पुरश्चान्यौ वेदिकाजालशोभितौ । वेदिकाजालरूपाढ्यः सिंहकर्णोपशोभितः ॥ १४७ ॥ प्रासादोऽयं विसुर्नाम कथितो भर्तृनन्दनः । एवमेते समाख्याताश्चतुरश्रायता दश ॥ १४८ ॥ चतुरश्रांयतांस्तिर्यगायत्यांथापरानपि । प्रासादानभिधास्यामो नवसंस्थानलक्षणैः ॥ १४९ ॥ द्वौ भागौ विस्तीर्गर्भे द्विगुणां तिर्यगायतिः । मध्ये भागोच्छ्रितं द्वारं तदर्धेन तु विस्तृतम् ॥ १५० ॥ स्तम्भश्चतुर्भिः संयुक्ता सीमा द्वारस्य चाग्रतः । द्विभागायामविस्तारा तावन्मात्रसमुच्छ्रितिः ॥ १५१ ॥ तां सीमां गर्भसहितां भागेनान्येन वेष्टयेत् । भित्तिस्तत्र विधातव्या सगवाक्षा चतुर्दिशम् ॥ १५२ ॥ षड्दारुकयुतो ह्येष प्रासादो भव उच्यते । अस्यैव भागनिष्कासा शाला मुखचतुष्टये ॥ १५३ ॥ यदा षड्दारुकोपेता विशालः स तदोच्यते । स्तम्भैर्मुखैमुखे षड्भिर्बहिः साम्मुख्य इत्यसौ ॥ १५४ ॥ अस्यैव सं.मा कर्णस्था द्विद्विस्तम्भयुता यदा । प्राग्रीवैभागनिष्क्रान्ता बहिस्था प्रभवस्तदा ॥ १५५ ॥ १ द. म्भ । २ द. मासिकाः । ३ क. त । ४ द. सी । ५ क. व्ययप; द. ग्याथो । ६ ख. भाग । ७ द. णो । ८ द. काः । ९ द. र । १० ख. द. ते । ११ ख. ६।; द. यद्वा षड्दारको । १२ द. स्ये । १३ ख. द. वभाग; ।
१८४ समराङ्गणसूत्रधारे सीम्नोऽग्रतो यदास्यैव स्तम्भद्वययुतो भवेत् । प्राग्रीवो भागनिष्क्रान्तस्तदा स्याच्छिबिराग्रहः ॥ १५६ ॥ विशालसन्निवेशस्य मुखे शाला भवेद् यदा । पार्श्वयोश्चोभयोः शाले प्राग्रीवाश्च त्रयो यदा ॥ १५७ ॥ निष्क्रान्तभाग एकैकैः स्तम्भद्वितयसंयुतः । प्रासादः स तदा ज्ञेयो मुखशालोऽभिधानतः ॥ १५८ ॥ मुखशालाग्रशालाया यदा स्तम्भाश्चतुर्दश । प्राग्रीवो द्विविधश्चाग्रे द्विशालः स तदा भवेत् ॥ १५९ ॥ †भित्तिस्तदानीं(?) प्रासादो गृहराजः प्रजायते । गर्भायामसमावग्रपृष्ठयोर्भागविस्तृतौ ॥ १६० ॥ चतुश्चतुर्धरौ यत्र प्राग्रीवौ द्वौ च पार्श्वयोः । तौ तु द्विद्विधरौ गर्भविस्तारेण तु संमितौ ॥ १६१ ॥ अमलो नाम स प्रोक्तः प्रासादः शुभलक्षणः । अस्यैव चाग्रे पृष्ठे च द्विद्विस्तम्भयुतौ यदा ॥ १६२ ॥ प्राग्रीवौ स तदा प्रोक्तः प्रासादो दशमो विभुः । प्रासादान् कथयामोऽन्यान दश वृत्तायतान् पुनः ॥ १६३ ॥ अष्टभागमुखायतया विस्तृत्या चतुरश्रकम् । वृत्तायतं प्रकुर्वीत सबाह्याभ्यन्तरं ततः ॥ १६४ ॥ गर्भं पश्चिमभागेऽस्य चतुर्भागं समन्ततः । कुर्यात् तस्याग्रतः सीमां भागद्वितयविस्तृताम् ॥ १६५ ॥ भागत्रयमितां भागेनैकेनान्तरितां च ताम् । संयुक्तामष्टभिः स्तम्भैः सुदृढैश्चारुदर्शनैः ॥ १६६ ॥ अलिन्देन परिक्षिप्तां ससीमा देवकोष्ठकम् । षोडशस्तम्भयुक्तेन कुर्यात् प्राग्रीवमग्रतः ॥ १६७ ॥ १ द. 'मेकेकं । २ द. तं । ३ द. प्रा । † इहापि कियांश्चिद् ग्रन्थो गलित इव । इतः श्लोकद्वयात् प्रागेव क. पुस्तके पत्राणि आचतु- ष्पञ्चाशाध्यायैकद्दे.। लुप्तानि । ग. ग्रन्थस्तु पुरैवावसितः ।
रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । २८९ छन्नाइछाद्यद्वयेनायमामोद इति कीर्तितः । वृत्तायतेषु प्रथमः प्रासादः स्वामिनो हितः ॥ १६८ ॥ समाहितौ यदास्यैव प्राग्रीवौ भागमिश्रितौ । चतुःस्तम्भै रैकिकस्तु वृत्ताभ्यां तुङ्ग उच्यते ॥ १६९ ॥ यदा सीमावधिर्भिर्त्तिर्गवाक्षैरुपशोभिना । वृत्तप्राग्रीव एकोऽन्ये (?) तदा चारुरुदाहृतः ॥ १७० ॥ सीमामध्ये विधातव्यौ प्राग्रीवौ भागविस्तृतौ । विस्तारसदृशायामौ दक्षिणेति (?) त्रिषु त्रयः ॥ १७१ ॥ कार्याः प्राग्रीवकास्ते च गर्भकोष्ठेन सम्मिताः । भूतिरित्येष (सं)प्रोक्तः प्रासादः शुभलक्षणः ॥ १७२ ॥ मुखायतौ स्याच्चतुरो भागान्यत्तिर्यगायतान्(?) । क्षेत्रवृत्तं ततः कुर्यात् तन्मध्ये गर्भवेश्म च ॥ १७३ ॥ चतुर्भागायतं तत् स्याद् भागद्वितयविस्तृतम् । अलिन्दो बाह्यतस्तस्य द्वादशस्तम्भसंयुक्तः ॥ १७४ ॥ भागद्वितयविस्तारः प्राग्रीवश्चांशनिर्गतः । निषेध इति वि(वक इति ) ख्यातः प्रासादोऽयं पुरातनैः ॥१७५॥ यदा(?) निषेधः स्यादस्य पुरः प्राग्रीवको यदि । चतुर्द्वारपरिक्षिप्तोऽलिन्देनाष्टधरेण वा ॥ १७६ ॥ अयमेवांशकेन स्याद् यदालिन्देन वेष्टितः । मुखभागत्रयं मुक्त्वा भित्त्या च परिवेष्टितः ॥ १७७ ॥ यदा च कर्णप्राग्रीवौ प्राग्रीवश्चाग्रतो भवेत् । विशेषरचना या च द्वा.विंशतिधरान्वितौ(?) ॥ १७८ ॥ गवाक्षैः शोभनैर्युक्तस्तदा सिंहः प्रकीर्तितः । द्वादशांशायते क्षेत्रे तथा षड्भागविस्तृते ॥ १७९॥
१ द. रिरिकस्तु । २ द. रि । ३ द. मुखायतो ।
३८६ समराङ्गणसूत्रधारे। पश्चादंशद्वयं त्यक्त्वा द्विभागायामविस्तृतः । देवकोष्ठो विधातव्यस्तद्द्वारं भागमुच्छ्रितम् ॥ १८० ॥ सीमाग्रे सान्तरा द्व्यंशविस्तृता चतुरानता । अष्टस्तम्भोऽस्य गर्भो वै षोडशस्तम्भको बहिः ॥ १८१ ॥ अलिन्दस्तस्य पुरतो वृत्तप्राग्रीवकोऽपि च । सीमाप्राग्रीव१कालिन्दकोष्ठान् वृत्तान् प्रकल्पयेत् ॥ १८२ ॥ प्राग्रीवौ पार्श्वयोः सीमासमौ भागविनिर्गतौ । द्वाभ्यां द्वाभ्यां युतौ ज्ञेयौ२ स्तम्भाभ्यां वर्तुलाकृती ॥ १८३ ॥ एतत्सर्वं विधानव्यमलिन्देनाभिवेष्टितम् । चतुर्विंशधरोऽयं३ च भागिकोऽयं प्रशस्यते ॥ १८४ ॥ द्विस्तम्भयुक्तान् प्राग्रीवान् कुर्याद् गर्भस्य दिक्त्रये । एवमेष समाख्यातः प्रासादः सुप्रभः शुभः ॥ १८५ ॥ भागद्वितयविस्ताराः प्राग्रीवा येऽस्य कीर्त्तिताः । चतुरश्रास्त एव स्युर्द्विद्विस्तम्भयुता यदि ॥ १८६ ॥ शेषा भवति भित्तिश्च गवाक्षैरुपशोभिता । प्रासादोयं तदा ज्ञेयो दशमो४ लोचनोत्सवः ॥ १८७ ॥ अष्टाश्रमथ वक्ष्यामः प्रासादांल्लक्षणैः सह । चतुर्भागान्विते क्षेत्रे तथाष्टाश्रीकृते पुनः ॥ १८८ ॥ द्वौ भागौ गर्भकोष्ठः स्यादलिन्दो भागिकस्तदा । स्तम्भाष्टकमलिन्दे स्यात् प्राग्रीवस्तस्य चाग्रतः ॥ १८९ ॥ द्व्युच्छ्रायच्छा(च्छा)दिनः श्रीमान् प्रासादो वज्रको भवेत् । अस्यैवाग्रे यदा सीमा चतुरश्रा चतुर्धरा ॥ १९० ॥ स्याच्चतुर्विंशतिस्तम्भश्चालिन्दो भागिकोऽपरः । नन्दनोऽयं समाख्यातः शङ्कुः प्राग्रीवकैस्त्रिभिः ॥ १९१ ॥ --------- १ द. को। २ द. यं। ३ द. यांश्च। ४ द. क। ५ द. नाः। ६ द. नो। ७ द. था। ८ द. राः।
रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । २८७ तस्य भित्तिर्विधानव्या क्षेत्रेऽष्टाश्रियुते बुधैः । वामनश्च(स्य) पुनद्वौँद्वौ गवाक्षौ दिक्त्रये मतौ ॥ १९२ ॥ अस्यैवाग्रे यदा सीमाभागाद् भागत्रयायता । द्विभागं विस्तृता ह्यंशसमुच्छेदाष्टभिर्धरैः (?) ॥ १९३ ॥ अलिन्दोवेष्टिता युक्ता प्राग्रीवैर्मेखलेऽ१तदा । भित्तिक्षेत्रे यदास्यैव प्राग्रीवाः परिवेष्टिताः ॥ १९४ ॥ अलिन्देन धरैः षड्भिः षड्भिर्युक्तास्तदा लयः । अष्टभागमिते क्षेत्रे कृतेऽष्टाश्रिणि सर्वतः ॥ १९५ ॥ भागद्वयमितं कुर्याद् देवकोष्ठं मनोरमम् । चतुर्भिः शोभितं द्वारैर्भागिका(लिन्दवेष्टितम्) ॥ १९६ ॥ अलिन्दस्य विधानव्याः स्तम्भाश्चाष्टौ ततोऽपरः । स्याच्चतुर्विंशतिस्तम्भो भागिकोऽलिन्दकः पुनः ॥ १९७ ॥ तथाविधस्तृतीयोऽपि प्राग्रीवाश्च चतुर्दिशम् । प्रासादोऽयं महापद्मो ब्रह्मणः शङ्करस्य च ॥ १९८ ॥ द्वितीयो(ये)ऽलिन्दक(के)ऽस्यैव प्राग्रीवाः स्युश्चतुर्दिशम् । अलिन्देन परिक्षिप्तो हंस एष प्रकीर्तितः ॥ १९९ ॥ प्राग्रीवोऽस्य महापद्मस्यालिन्देनाष्टनो यदा । कर्णप्राग्रीवकौ द्वौ द्वौ व्योमसंज्ञस्तदा भवेत् ॥ २०० ॥ हंसस्यैव वलभ्यः स्युः प्राग्रीवाणां५ पदे यदा । चतुःस्तम्भाः परिक्षिप्ता अलिन्देन चतुर्दिशम् ॥ २०१ ॥ तदा चन्द्रोदयो नाम प्रासादो जायते शुभः । एवमेषां चतुष्षष्टिः प्रासादानामुदाहृता ॥ २०२ ॥ इति सुरभवनानां सप्ततिर्दारवाणा- मिह सदनचतुष्केणान्वितेयं प्रदिष्टा । १ द. न्द । २ द. ॰लैस्तदा । ३ द. स्त्रि । ४ द. गो । ५ द. वा । ६ द. ॰नां पदे यथा । ७ द. आ । ८ द. ताः । § इहानुक्रमो व्यत्यस्तः । § लदये तु मेखल इति पठितः ।
२८८ समराङ्गणसूत्रधारे जनमयमवकोशानन्दशुभ्रांशुलेखा (?) भवति सुविदितैषा शिल्पिनां कामधेनुः ॥ २०३ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे रुचकादिचतुष्षष्टिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः। अथ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः। प्रासादानामथ ब्रूमो लक्षणानि भवन्ति ये । प्रशस्ताश्चाप्रशस्ताश्च तस्मिन्नवनिमण्डले ॥ १ ॥ ये समाः समकर्णाश्च समस्तम्भाः समक्षणाः । नैवोच्चा नातिह्रस्वाश्च कर्णायामादविह्वलाः ॥ २ ॥ असंमूढा विभागेन प्रमाणेन सुसंस्थिताः । ऊर्ध्वाधः कर्णपादीभिरुपेताः सलिलान्तरैः ॥ ३ ॥ असङ्कीर्णोद्यैश्छद्यैः स्वमानपरिकल्पितैः । सुविभक्ताः सुसंस्थाश्च रेंम्यैरविकलैः कृताः ॥ ४ ॥ समभागविभक्तैश्च युक्ताश्चालिन्दकैः समैः । स्वजातिपरिवेषाय्या नान्यजातिप्रदूषिताः ॥ ५ ॥ असङ्कीर्णाः शरीरंण संस्थानेन सुसंस्थिताः । केवला जातिशुद्धाश्च प्रासादाः शुभदा नृणाम् ॥ ६ ॥ सुदृढैर्मूलपादैश्च दृढाश्चामूलमस्तकम् । नाधरोत्तरयुक्ताश्च सुश्लिष्टद्रव्यसन्धिभिः ॥ ७ ॥ देव(श)जातिप्रसिद्धैश्च भूषणैः सुविभूषिताः । प्रासादाः शुभदा नित्यं पूजासंस्कारवर्धनैः ॥ ८ ॥ कर्ता कारयिता चैषां परां वृद्धिमवाप्नुयात् । अभ्रमानपि वक्ष्यामः प्रासादानवलक्षणैः ॥ ९ ॥ १ द. वा । २ द. द्व । ३ द. क्ता । ४ द. र्णा । ५ द. ता । ६ द. ०हैद्रैं० । ७ द. ना ।
प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः । २८९ विषमाः कर्णहीनाश्च क्लेशबन्धभयावहाः । स्तम्भैः क्षणैश्च विषमैः स्वामिनो मृत्युहेतवः ॥ १० ॥ अत्युच्चैः स्याद् भयं राज्ञो ह्रस्वैः सेना च॑ मथ्यते । कर्णायामेन विकलाः प्रासादाः स्युर्भयङ्कराः ॥ ११ ॥ विभागेन विहीनास्तु दारिद्र्यभयदाः स्मृताः । नष्टाभिः कर्णपादीभिरुद्वेगजननं नृणाम् ॥ १२ ॥ छाद्यैः सङ्कीर्णकैर्हीनः कुलक्षयकराः स्मृताः । दुर्विभक्ताः कुसंस्थाश्च द्रव्यैर्विकलसंयुतैः ॥ १३ ॥ रोगं क्लेशं च मृत्युं च क्रमशॊ विने॑रन्ति ते । विषमैर्भागहीनश्चाप्यलिन्दैर्व्याधितो भयम् ॥ १४ ॥ पराजयं परिवृंतैरन्यजातिप्रदूषितैः । ये परावृतयो ये ऽन्यसङ्कीर्णा येऽन्यविग्रहाः ॥ १५ ॥ कर्तुः कारयितुर्नैते नन्दका वापि चात्मनः । दुर्बला मूलपादेन विश्लिष्टैः पीठसन्धिभिः ॥ १६ ॥ अल्पायुषस्ते प्रासादा भवन्ति च भयावहाः । अधरोत्तरगैः श्लिष्टैर्विज्ञेया व्याधिकारिणः ॥ १७ ॥ आदेशैर्भूषणैर्युक्ताः प्रासादा न सुखावहाः । ये कीर्त्तिमिच्छन्ति जयन्ति भूतान् कुर्युः शुभैर्लक्ष्मभिरन्वितांस्ते । प्रासादमुख्यानितरे तु वर्ज्यास्तेजोयशःश्रीविजयादिकामैः ॥१८॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः ॥ १ द. श्र । २ द. टी । ३ द. नं । ४ द. च । ५ द. यो । ६ द. दृष्टिं । ७ द. याँ । ८ द. णो । वा. ३७
२९० समराङ्गणसूत्रधारे अथायतननिवेशो नामैकपञ्चाशोऽध्यायः । एवं नृपस्य प्रासादे कृते कॢप्तेऽथवा भुवि । तस्यानुजीविनः कुर्युः प्रासादान् परिधौ यदि ॥ १ ॥ तदा दिग्भागविन्यासस्थानमानान्यनुक्रमात् । तेषामिहाभिधीयन्ते सर्वेषां वृद्धिहेतवे ॥ २ ॥ दशाष्टौ षट् च धनुषां शतानि क्ष्माभृतां क्रमात् । मानमायतनस्योक्तं त्रेधा श्रेष्ठादिभेदतः ॥ ३ ॥ क्षेत्रमायतनस्यैव चतुरश्रं समन्ततः । तत्र भक्ताः प्रकुर्वीरंस्त्रिधा स्वे स्वामिवत्सलाः ॥ ४ ॥ ये चास्य सम्मताः केचित् कुले जाता हितैषिणः । द्वादशांशेन हीनानि क्रमात् तान्यनुजन्मनाम् ॥ ५ ॥ तस्यैव वामतः कुर्यादुत्सेधाद् द्विगुणान्तरे । कुर्याद् दशांशहीनानि नैर्ऋत्यां दिशि भूपतेः ॥ ६ ॥ प्रासादान्नृपपत्नीनां सर्वासामपि शास्त्रवित् । अष्टभागेन हीनानि प्रतीच्यां दिशि कारयेत् ॥ ७ ॥ देवधिष्ण्यानि तन्त्रैः स्यात् स्वसुराणां विधानतः (?) । सौम्यायां मारुतीं यावन्नवांशापचिताः क्रमात् ॥ ८ ॥ प्रासादा मन्त्रिसनानीप्रतीहारपुरोधसाम् । एतेषां पूर्वभागस्थं राजमातुर्निवेशनम् ॥ ९ ॥ हीनमेकादशांशेन तत् कार्यं राजकारिता (?) । ऐशीमाश्रित्य देवानां तुल्यमैन्द्रपदावधि ॥ १० ॥ स्वसॄणां मातुलानां च कुमाराणां तथा क्रमात् । आग्नेय्यां द्विजमुख्यानां विधातव्यं निवेशनम् ॥ ११ ॥ कार्यः पुरोधःप्रासादः तुल्यतत्पुनरेव वा (?) । याम्यायां कुर्युष्टांशहीनान्युर्वीशमन्दिरात् ॥ १२ ॥ १ द. नः ।
आयतननिवेशो नामैकपञ्चाशोऽध्यायः । २९१ सामन्तं१कुञ्जारोहभटं२पौरजनाः क्रमात् । एतान्यायतनान्येषां यथाभागं प्रकल्पयेत् ॥ १३ ॥ मर्मवेध३प्रदेशस्थान् द्वारवेधगतानपि । स्वस्थानान्तरितांश्चैतान् न कुर्याद्धितकाम्यया ॥ १४ ॥ अलिन्दैर्गर्भकोष्ठैश्च सीमास्तम्भगवाक्षकैः । द्वारद्रव्यतलोच्छ्रायैः प्राग्ग्रीवैः सिंहकर्णकैः ॥ १५ ॥ न कुर्याद् भूषणैस्तुल्यं समं वास्थंदरूपतः (?) । समरूपं भवेद्धर्म्यं नियुक्तं च न नन्दति ॥ १६ ॥ राजपीडा भवेत् तस्मिन्नाधिक्ये च कुलक्षयः । प्रासादाद् भूमिपालस्य निवेशं परिधौ स्थितं५म् ॥ १७ ॥ द्रव्येण कतरेणापि नोत्कृष्टं कारयेद् बुधः । संस्थानान्मानतश्चापि विस्तारेणोच्छ्रयेण वा ॥ १८ ॥ पूर्वोक्तेभ्यो विभागेभ्यः किञ्चिद्धीनतमः शुभः । अन्योन्यं द्विगुणच्छाद्यैरैककस्यान्तरं शुभम् ॥ १९ ॥ सुभोग्यं तं च कुर्वीत बहुभिर्भवनान्तरैः । कोष्ठिकाभोजनागारैर्भाण्डोपस्करधामभिः ॥ २० ॥ शिर्लोल्लूषात(?)शालाभिः शेषं तु परिपूरयेत् । प्रशस्तान् कारयेत् सर्वान् शुभरूपान् मनोरमान् ॥ २१ ॥ प्रायशः स्वालयांश्चान्यान् सर्वस्यान्यगृहाणि च । नरेन्द्रायतनस्यैव निवेशात् परिकल्पयेत् ॥ २२ ॥ अन्यथात्वे महादोषा वैपरीत्ये कुलक्षयः । इति कथितदिगादिभेदयोगैः सुरभवनानि भवन्ति यस्य राज्ञः । १ द. न्तः । २ द. ट्ट । ३ द. धः । ४ द. र्द्धम्यं । ५ द. शः । ६ द. तः । ७ द. स्त । ८ द. शिलोल्लूषते । ९ द. ज्ञा ।
२९२ समराङ्गणसूत्रधारे अविरतमुदितोदितप्रतापः स्वभुजजितां स चिरं प्रशास्ति पृथ्वीम् ॥ २३ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे आयतननिवेशो नामैकपञ्चाशोऽध्यायः ॥ अथ प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः । अवतारो निवेशानां विधानं वास्तुनो यतः । कार्त्स्न्येन तमतो ब्रूमः सभ्यस्य प्रसवोत्तमः (?) ॥ १ ॥ कुलजातिक्रमाणां च क्रमं दीर्घाल्यजीविनाम् । संस्थानमभिधास्यामो लक्ष्यलक्षणमेव च ॥ २ ॥ शुभाशुभानां वैराजमादिं तेषां प्रचक्षते । पूर्वोक्तस्य विमानस्य तस्यातो लक्ष्म कथ्यते ॥ ३ ॥ वैराजस्य यथाकारव्यवस्थानमशेषतः । चतुरश्रं समं क्षेत्रमशीत्यंशैर्विभाजयेत् ॥ ४ ॥ संयुक्तमष्टभिर्भागैः कुर्याद् गर्भगृहं शुभम् । द्विपञ्चाशद्दरैः सीमा गर्भकोष्ठसमन्विताः ॥ ५ ॥ द्वात्रिंशता देवकोष्ठैः सर्वैरेकान्तरैश्च तैः । बाह्यस्थाने ततः स्थानाद् द्वादशक्षोभणैर्धरैः ॥ ६ ॥ हेमरत्नमयैः स्तम्भैः शुक्त्रपट्टैश्च भूषितैः । शुक्लाङ्गारखचितैर्वितानैश्च विभूषणैः ॥ ७ ॥ स्फाटिकैर्विविधैर्जालैः सहरिन्मणिवेदिकैः । हंसकर्णकपोतालीतिर्यक्स्थाल्यर्थकर्णिकैः ॥ ८ ॥ पर्यन्तदेशधृतया गर्भस्योपरि घण्टया । लोकनाथेन तत् सृष्टमाद्यं वैराजसंज्ञितम् ॥ ९ ॥ १ द. चिरसमु° २ द. क्ष्य ।