समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 347, कुल 726 में से
संदर्भ में पढ़ें२८२ समराङ्गणसूत्रधारे वलभ्यौ पार्श्वयोः स्यातां विशालाख्यस्तदा भवेत् । विशालस्य यदा गर्भे भित्तिर्भवति दिक्त्रये ॥ १३२ ॥ द्वौ द्वौ गवाक्षकौ चापि साम्मुख्यैः स भवेत् तदा । प्राग्रीवास्त्रिदिंशं तस्य गर्भकोष्ठायता यदा ॥ १३३ ॥ हित्वा वलभ्यौ प्राग्रीवौ विधीयेते तथापरौ । कर्णेषु भागमेकैकं त्यक्त्वा स्यात् प्रभवस्तदा ॥ १३४ ॥ एतस्यैव मुखे स्यातां यदा प्राग्रीवकावुभौ । पार्श्वयोरपरौ द्वौ द्वौ प्राग्रीवौ भवतॊ यदा ॥ १३५ ॥ कर्णेषु भित्तयश्च स्युस्तदा स्याच्छिबिराग्रहः । यदास्यैव मुखे शाला भागद्वितयविस्तृतां ॥ १३६ ॥ आयामेन च षड्भागा प्राग्रीवौ द्वौ तदग्रतः । द्वौ द्वौ गवाक्षकौ स्यातां तद्भित्त्योरुभयोरपि ॥ १३७ ॥ सीमायां द्वादश स्तम्भा मुखशालस्तदा भवेत् । अलिन्दो भागिकः कार्यों विशालंस्यैव बाह्यतः ॥ १३८ ॥ प्राग्रीवभूमिषु वृतो भित्त्या च सगवाक्षकः । अग्रतः सहितः स्तम्भैः षड्भिश्च क्रियते यदा ॥ १३९ ॥ द्विशाल इति विख्यातः प्रासादो जायते तदा । यदास्यैव विधीयन्ते स्तम्भाः सर्वे समन्ततः ॥ १४० ॥ प्राग्रीवकौ चोभयतो गृहराजस्तदा भवेत् । सर्वस्यैव (?) यदालिन्दः स्यादन्यो भागविस्तृतैः ॥ १४१ ॥ सीमान्तविस्तृते स्यातां वलभ्यौ भागनिस्सृते । भित्तिर्विधीयते शेषा गवाक्षैरुपशोभिता ॥ १४२ ॥ मुखे षड्दारुकं च स्यात् तदा स्यादमलाभिधः । एकादशायते क्षेत्रे तथा षड्भागविस्तृते ॥ १४३ ॥ १. क. त । २ क. स्यात् स; द. सोऽमुख्या । ३ द. द । ४ द. य । ५ द. त । ६ द. वो । ७ द. ते । ८ द. त् स्थविरग्रहः । ९ द. ताः । १० क. ॰लाल्ये च बा॰ । ११ क. तौ । १२ क. वि । १३ द. स्तृ॑ । १४ द. भ्यो । १५ क. विस्तृते । १६ द. षड्ढारकं ।