समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 348, कुल 726 में से
संदर्भ में पढ़ेंरुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । १८३ मुक्त्वा भागद्वयं पश्चाद् देवकोष्ठं निवेशयेत् । भागं मुक्त्वाग्रतः कुर्यात् सीमां भागचतुष्टयम् ॥ १४४ ॥ अष्टस्तम्भास्ततोऽलिन्द विंशतिस्तम्भभागिकोः । भागिकः परितोऽलिन्दोऽष्टाविंशतिघरोऽपरः ॥ १४५ ॥ द्विद्विस्तम्भयुताः कार्याः प्राग्रीवाः कोष्ठजास्त्रयः । सीमासँमे वलभ्यौ च प्राग्रीवौ मध्यतस्तयोः ॥ १४६ ॥ द्विद्विस्तम्भौ पुरश्चान्यौ वेदिकाजालशोभितौ । वेदिकाजालरूपाढ्यः सिंहकर्णोपशोभितः ॥ १४७ ॥ प्रासादोऽयं विसुर्नाम कथितो भर्तृनन्दनः । एवमेते समाख्याताश्चतुरश्रायता दश ॥ १४८ ॥ चतुरश्रांयतांस्तिर्यगायत्यांथापरानपि । प्रासादानभिधास्यामो नवसंस्थानलक्षणैः ॥ १४९ ॥ द्वौ भागौ विस्तीर्गर्भे द्विगुणां तिर्यगायतिः । मध्ये भागोच्छ्रितं द्वारं तदर्धेन तु विस्तृतम् ॥ १५० ॥ स्तम्भश्चतुर्भिः संयुक्ता सीमा द्वारस्य चाग्रतः । द्विभागायामविस्तारा तावन्मात्रसमुच्छ्रितिः ॥ १५१ ॥ तां सीमां गर्भसहितां भागेनान्येन वेष्टयेत् । भित्तिस्तत्र विधातव्या सगवाक्षा चतुर्दिशम् ॥ १५२ ॥ षड्दारुकयुतो ह्येष प्रासादो भव उच्यते । अस्यैव भागनिष्कासा शाला मुखचतुष्टये ॥ १५३ ॥ यदा षड्दारुकोपेता विशालः स तदोच्यते । स्तम्भैर्मुखैमुखे षड्भिर्बहिः साम्मुख्य इत्यसौ ॥ १५४ ॥ अस्यैव सं.मा कर्णस्था द्विद्विस्तम्भयुता यदा । प्राग्रीवैभागनिष्क्रान्ता बहिस्था प्रभवस्तदा ॥ १५५ ॥ १ द. म्भ । २ द. मासिकाः । ३ क. त । ४ द. सी । ५ क. व्ययप; द. ग्याथो । ६ ख. भाग । ७ द. णो । ८ द. काः । ९ द. र । १० ख. द. ते । ११ ख. ६।; द. यद्वा षड्दारको । १२ द. स्ये । १३ ख. द. वभाग; ।