समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 349, कुल 726 में से
संदर्भ में पढ़ें१८४ समराङ्गणसूत्रधारे सीम्नोऽग्रतो यदास्यैव स्तम्भद्वययुतो भवेत् । प्राग्रीवो भागनिष्क्रान्तस्तदा स्याच्छिबिराग्रहः ॥ १५६ ॥ विशालसन्निवेशस्य मुखे शाला भवेद् यदा । पार्श्वयोश्चोभयोः शाले प्राग्रीवाश्च त्रयो यदा ॥ १५७ ॥ निष्क्रान्तभाग एकैकैः स्तम्भद्वितयसंयुतः । प्रासादः स तदा ज्ञेयो मुखशालोऽभिधानतः ॥ १५८ ॥ मुखशालाग्रशालाया यदा स्तम्भाश्चतुर्दश । प्राग्रीवो द्विविधश्चाग्रे द्विशालः स तदा भवेत् ॥ १५९ ॥ †भित्तिस्तदानीं(?) प्रासादो गृहराजः प्रजायते । गर्भायामसमावग्रपृष्ठयोर्भागविस्तृतौ ॥ १६० ॥ चतुश्चतुर्धरौ यत्र प्राग्रीवौ द्वौ च पार्श्वयोः । तौ तु द्विद्विधरौ गर्भविस्तारेण तु संमितौ ॥ १६१ ॥ अमलो नाम स प्रोक्तः प्रासादः शुभलक्षणः । अस्यैव चाग्रे पृष्ठे च द्विद्विस्तम्भयुतौ यदा ॥ १६२ ॥ प्राग्रीवौ स तदा प्रोक्तः प्रासादो दशमो विभुः । प्रासादान् कथयामोऽन्यान दश वृत्तायतान् पुनः ॥ १६३ ॥ अष्टभागमुखायतया विस्तृत्या चतुरश्रकम् । वृत्तायतं प्रकुर्वीत सबाह्याभ्यन्तरं ततः ॥ १६४ ॥ गर्भं पश्चिमभागेऽस्य चतुर्भागं समन्ततः । कुर्यात् तस्याग्रतः सीमां भागद्वितयविस्तृताम् ॥ १६५ ॥ भागत्रयमितां भागेनैकेनान्तरितां च ताम् । संयुक्तामष्टभिः स्तम्भैः सुदृढैश्चारुदर्शनैः ॥ १६६ ॥ अलिन्देन परिक्षिप्तां ससीमा देवकोष्ठकम् । षोडशस्तम्भयुक्तेन कुर्यात् प्राग्रीवमग्रतः ॥ १६७ ॥ १ द. 'मेकेकं । २ द. तं । ३ द. प्रा । † इहापि कियांश्चिद् ग्रन्थो गलित इव । इतः श्लोकद्वयात् प्रागेव क. पुस्तके पत्राणि आचतु- ष्पञ्चाशाध्यायैकद्दे.। लुप्तानि । ग. ग्रन्थस्तु पुरैवावसितः ।