समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 342, कुल 726 में से
संदर्भ में पढ़ेंरुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । २७७ क्षितिभूषणः । क्षेत्रस्य चतुरश्रस्य भागान् द्वादश कल्पयेत् । मध्ये गर्भं चतुःस्तम्भं तस्य कुर्याद् द्विभागिकम् ॥ ८० ॥ तद्बहिर्भागिकोऽलिन्दो द्वादशस्तम्भगवान् भवेत् । मध्येऽपरस्यां यौ स्तम्भौ ताभ्यां कुर्वीत तोरणम् ॥ ८१ ॥ अलिन्दो भागिकः कार्यो भित्त्या भागिकया वृतः । प्राच्यां षड्दारुकं¹ मध्ये गर्भव्यासोन्मितायति ॥ ८२ ॥ तृतीयो भागिकोऽलिन्दः स्याद् भित्त्या परिवेष्टितः । चतुर्भागायतं भूयस्तत्र षड्दारुकं भवेत् ॥ ८३ ॥ प्राग्रीवं भागविष्कम्भं कुर्याद् भागद्वयायतम् । अग्रतः स्तोभितं स्तम्भैर्भागान्तस्थचयावृतम् ॥ ८४ ॥ यथा प्राच्यां तथोदीच्यां याम्यायामपि कीर्तितम् । दिशि प्रतीच्यां तु पुनर्द्वितीयालिन्दकाद् बहिः ॥ ८५ ॥ द्विभागायामविष्कम्भं देवकोष्ठं निवेशयेत् । सपक्षद्वारकं श्रीमद् द्वारपाशोपशोभितम् ॥ ८६ ॥ भागिकोऽलिन्दकस्तस्माद् बहिर्भित्त्याभिवेष्टितः । बहिश्चयावृतो वा स्याद् गवाक्षैर्वा विभूषितः ॥ ८७ ॥ पृथिवी विजयते यस्मात् तेनासौ पृथिवीजयः । भूजयः । यदा पृथ्विजयस्यैव कर्णप्राग्रीवकावुभौ ॥ ८८ ॥ कोणेषु भागिकौ स्यातां विज्ञेयो विजयस्तदा । विजयः । अयं समन्तादुत्क्षिप्तो बाह्यालिन्दं विना यदा ॥ ८९ ॥ मध्यमालिन्दसौधस्थ( स्थ )कर्णप्रासादकैश्चितः । प्रथमालिन्दगर्भौ च समुत्क्षिप्ततरौ ततः ॥ ९० ॥ स्यातां छाद्यद्वयच्छन्नौ तदा नन्दोऽभिधीयते । १ ग. कां । २ क. र्भं ।