समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 341, कुल 726 में से
संदर्भ में पढ़ेंअथाभिधीयतेऽधुना प्रासादः § शुभलक्षणः । षड्भागभाजिते क्षेत्रे चतुरश्रे समन्ततः ॥ ६८ ॥ द्विभागायामविस्तारं मध्ये गर्भगृहं भवेत् । भागद्वयोच्छ्रितैः स्तम्भैर्युतं व्यक्तैः सलक्षणैः ॥ ६९ ॥ निष्क्रान्तेषु बहिर्भागे गर्भपादेषु योजयेत् । तोरणानि मनोज्ञानि ककुप्सु चतसृष्वपि ॥ ७० ॥ गर्भस्तम्भप्रमाणे न तानि स्तम्भद्वयेन वा । समुत्क्षिप्तानि युक्तानि कलशै रविमण्डलैः ॥ ७१ ॥ पल्लवैः पत्रजात्यादिविन्यासैश्चाप्यनेकंशः । भूषितास्ये पुनर्मूर्ध्नि मकराणां मुखैरपि ॥ ७२ ॥ स्तम्भयोरन्तरे दद्यादुभौ मकरपूरिमौ । अन्योन्याभिमुखे श्लिष्टे कुर्यान्मकरयोर्मुखे ॥ ७३ ॥ चतुर्णामपि निर्दिष्टैस्तोरणानां मया विधिः । अलिन्दो भागिकश्चान्यो बहिर्भागे प्रकीर्तितः ॥ ७४ ॥ स्युर्भागिकान्यलिन्दान्ते धार्मिकायतनानि च । वेष्टितानि बहिर्भित्या सम्मुखानि परस्परम् ॥ ७५ ॥ धार्मिकालयभित्तीनां भूमिर्या बाह्यतो भवेत् । तस्याः षड्दारुकाणि स्युर्भागमात्रोच्छ्रितानि च ॥ ७६ ॥ प्राग्रीवकैः ससोपानैर्दिक्कवत्रैस्तानि भूषयेत् । अपरस्याः पुनर्भित्तेर्भागद्वयविनिस्सृतम् ॥ ७७ ॥ मध्ये द्विभागविस्तीर्णं देवकोष्ठं निवेशयेत् । द्वारपाशं च कुर्वीत तस्योक्तं(र्ध्वं) भागमुच्छ्रितम् ॥ ७८ ॥ तथा भागार्धविस्तारमित्येष क्षितिभूषणः । प्रासादः कीर्तितः सम्यक् सर्वलक्षणलक्षितः ॥ ७९ ॥
१ द. पट्टेपु । २ ख. ग. द. त्रि। ३ द. वेय । ४ ख. खों; द. खो । ५ द. ष्टा । ६ द. आ । ७ द. स्फगिकान्य°। ८ द. वि°। § 'क्षितिभूषण' इति पाठः । स्यान् ।