समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 353, कुल 726 में से
संदर्भ में पढ़ें२८८ समराङ्गणसूत्रधारे जनमयमवकोशानन्दशुभ्रांशुलेखा (?) भवति सुविदितैषा शिल्पिनां कामधेनुः ॥ २०३ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे रुचकादिचतुष्षष्टिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः। अथ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः। प्रासादानामथ ब्रूमो लक्षणानि भवन्ति ये । प्रशस्ताश्चाप्रशस्ताश्च तस्मिन्नवनिमण्डले ॥ १ ॥ ये समाः समकर्णाश्च समस्तम्भाः समक्षणाः । नैवोच्चा नातिह्रस्वाश्च कर्णायामादविह्वलाः ॥ २ ॥ असंमूढा विभागेन प्रमाणेन सुसंस्थिताः । ऊर्ध्वाधः कर्णपादीभिरुपेताः सलिलान्तरैः ॥ ३ ॥ असङ्कीर्णोद्यैश्छद्यैः स्वमानपरिकल्पितैः । सुविभक्ताः सुसंस्थाश्च रेंम्यैरविकलैः कृताः ॥ ४ ॥ समभागविभक्तैश्च युक्ताश्चालिन्दकैः समैः । स्वजातिपरिवेषाय्या नान्यजातिप्रदूषिताः ॥ ५ ॥ असङ्कीर्णाः शरीरंण संस्थानेन सुसंस्थिताः । केवला जातिशुद्धाश्च प्रासादाः शुभदा नृणाम् ॥ ६ ॥ सुदृढैर्मूलपादैश्च दृढाश्चामूलमस्तकम् । नाधरोत्तरयुक्ताश्च सुश्लिष्टद्रव्यसन्धिभिः ॥ ७ ॥ देव(श)जातिप्रसिद्धैश्च भूषणैः सुविभूषिताः । प्रासादाः शुभदा नित्यं पूजासंस्कारवर्धनैः ॥ ८ ॥ कर्ता कारयिता चैषां परां वृद्धिमवाप्नुयात् । अभ्रमानपि वक्ष्यामः प्रासादानवलक्षणैः ॥ ९ ॥ १ द. वा । २ द. द्व । ३ द. क्ता । ४ द. र्णा । ५ द. ता । ६ द. ०हैद्रैं० । ७ द. ना ।