समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 351, कुल 726 में से
संदर्भ में पढ़ें३८६ समराङ्गणसूत्रधारे। पश्चादंशद्वयं त्यक्त्वा द्विभागायामविस्तृतः । देवकोष्ठो विधातव्यस्तद्द्वारं भागमुच्छ्रितम् ॥ १८० ॥ सीमाग्रे सान्तरा द्व्यंशविस्तृता चतुरानता । अष्टस्तम्भोऽस्य गर्भो वै षोडशस्तम्भको बहिः ॥ १८१ ॥ अलिन्दस्तस्य पुरतो वृत्तप्राग्रीवकोऽपि च । सीमाप्राग्रीव१कालिन्दकोष्ठान् वृत्तान् प्रकल्पयेत् ॥ १८२ ॥ प्राग्रीवौ पार्श्वयोः सीमासमौ भागविनिर्गतौ । द्वाभ्यां द्वाभ्यां युतौ ज्ञेयौ२ स्तम्भाभ्यां वर्तुलाकृती ॥ १८३ ॥ एतत्सर्वं विधानव्यमलिन्देनाभिवेष्टितम् । चतुर्विंशधरोऽयं३ च भागिकोऽयं प्रशस्यते ॥ १८४ ॥ द्विस्तम्भयुक्तान् प्राग्रीवान् कुर्याद् गर्भस्य दिक्त्रये । एवमेष समाख्यातः प्रासादः सुप्रभः शुभः ॥ १८५ ॥ भागद्वितयविस्ताराः प्राग्रीवा येऽस्य कीर्त्तिताः । चतुरश्रास्त एव स्युर्द्विद्विस्तम्भयुता यदि ॥ १८६ ॥ शेषा भवति भित्तिश्च गवाक्षैरुपशोभिता । प्रासादोयं तदा ज्ञेयो दशमो४ लोचनोत्सवः ॥ १८७ ॥ अष्टाश्रमथ वक्ष्यामः प्रासादांल्लक्षणैः सह । चतुर्भागान्विते क्षेत्रे तथाष्टाश्रीकृते पुनः ॥ १८८ ॥ द्वौ भागौ गर्भकोष्ठः स्यादलिन्दो भागिकस्तदा । स्तम्भाष्टकमलिन्दे स्यात् प्राग्रीवस्तस्य चाग्रतः ॥ १८९ ॥ द्व्युच्छ्रायच्छा(च्छा)दिनः श्रीमान् प्रासादो वज्रको भवेत् । अस्यैवाग्रे यदा सीमा चतुरश्रा चतुर्धरा ॥ १९० ॥ स्याच्चतुर्विंशतिस्तम्भश्चालिन्दो भागिकोऽपरः । नन्दनोऽयं समाख्यातः शङ्कुः प्राग्रीवकैस्त्रिभिः ॥ १९१ ॥ --------- १ द. को। २ द. यं। ३ द. यांश्च। ४ द. क। ५ द. नाः। ६ द. नो। ७ द. था। ८ द. राः।