समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 358, कुल 726 में से
संदर्भ में पढ़ेंप्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः । २९३ तस्मात् स्वस्तिकसंज्ञः प्राग् गृहच्छन्दो विजायते । चतुश्शालस्त्रिशालश्च हिरण्यौकस्त्वतोऽपि च ॥ १० ॥ सिद्धार्थको द्विशालः स्यादेकशालस्तु कुम्भकः । सृष्टमन्यद् विमानं च वरं वीरं चतुर्मुखम् ॥ ११ ॥ गणानां देवतानां च स्कन्दस्य च यथाक्रमम् । प्रासादा द्वादशैतेऽन्ये जज्ञिरे शुभलक्षणाः ॥ १२ ॥ स्वस्तिकः श्रीतरुश्चैव तृतीयः क्षितिभूषणः । भूजयो विजयो भद्रैः श्रीकूतोष्णीषसंज्ञितौ ॥ १३ ॥ नन्द्यावर्तो विमानश्च सर्वतोभद्र एव च । विमुक्तकोणप्रासाद इति वैराजसंभवाः ॥ १४ ॥ एकैकस्मात् क्रमेणैवमेकैकः समजायत । स्वस्तिकाद् रुचको ज्ञेयः श्रीतरोः सिंहपञ्जरः ॥ १५ ॥ क्ष्माभूषणात् तु शाला स्याद् भूजयाद् गजयूथपः । विजयादवतंसश्च भद्रान्नन्दी विनिर्गतः ॥ १६ ॥ श्रीकूटाच्चित्रकूटाख्य उष्णीषात् प्रमदाप्रियः । व्यामिश्रो नन्दिकावर्ताद् विमानाद्धस्तिजाव(ति)कः ॥ १७ ॥ कुबेरः सर्वतोभद्रान्मुक्तकोणाद् धराधरः । एतेभ्योऽपि च संभूताः कनीयांसोऽभिधानतः ॥ १८ ॥ तद्भेदास्ते तदाकारैर्लक्ष्यैः स्वैः स्वैः पृथग्विधैः । भागैस्तेषूत्तमैः पूर्वान् मध्यमान् मध्यमस्तथा ॥ १९ ॥ कनीयसः कनीयोभिः प्रासादानुपकल्पयेत् । शिखरैरपरैः श्लिष्टाः प्रासादा जज्ञिरे ततः ॥ २० ॥ प्रथमो रुचकस्तेषु द्वितीयो वर्धमानकः । अवतंसस्तृतीयस्तु चतुर्थो भद्र उच्यते ॥ २१ ॥ १ ॰प्याकस्व॰ । २ द. द्रा । ३ द. ता । ४ द. क्षा ।