समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 359, कुल 726 में से
संदर्भ में पढ़ें२९४ समराङ्गणसूत्रधारे पञ्चमः सर्वतोभद्रः षष्ठः स्यान्मुक्तकोणकः । मेरुर्मन्दर इत्यष्टौ विज्ञेयाः शिखरोत्तमाः ॥ २२ ॥ चतुरश्राः समाख्याता देवानामालयाः शुभाः । एते ते वंशजाः सर्वे निवेश्या ब्रह्मजातयः ॥ २३ ॥ वैराजकुलसंभूताः प्रासादाः परमोत्तमाः । एतेभ्योऽन्येऽपि संभूताः पुत्रपौत्रप्रपौत्र्य(जा)ः ॥ २४ ॥ स्ववंशाः सुपरिवाराः परवंशविवर्जिताः । कर्तव्या भूतिकामेन तेजसा शुभलक्षणाः ॥ २५ ॥ नन्दका वर्धनाश्चैव सर्वकामफलप्रदाः । हृष्टपुष्टजनाकीर्णाः पूजासंस्कारवर्धनाः ॥ २६ ॥ यदि हीना भवन्त्येते परवंशेन दूषिताः । तदुद्वेगं नृणां नित्यमर्थनाशं कुलक्षयम् ॥ २७ ॥ पीडां च स्वामिनः कुर्युर्यदन्यदपि गर्हितम् । तस्मादेते विधातव्या दूषिता नान्यजातिभिः ॥ २८ ॥ इति वैराजजातानामुत्पत्तिः परिकीर्तिता । वैराजजन्म सुरसद्मपरम्परेय- मुक्तेवमत्र शुभलक्ष्मवती समासात् । आनन्दकीर्त्तिधनधान्यकरी कृता स्या- दन्यादृशी पुनरनर्थफलैव कर्तुः ॥ २९ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः ॥ अथ जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः । ब्रूमो जघन्यवास्तूनां द्वारमानमतः परम् । विस्तारं सतलोच्छ्रायं द्रव्यन्यासविधिं तथा ॥ १ ॥ १ द. ॰मन्दिर । २ द. ॰त्र्यजाः ॥ ३ द. तृ ।