समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 362, कुल 726 में से
संदर्भ में पढ़ेंविभूषितं सिंहचक्रैर्हस्तिशुण्डैरथापि वा । कपोतादि विधातव्यमन्तरे रूपशाखयोः ॥ १२ ॥ कार्यं विषमसंख्यं च सर्वमेतद् विचक्षणैः । तस्माद् बहिर्विधातव्या सर्वतः परिमण्डली ॥ १३ ॥ अन्त्यशाखासमा सा^१ च प्रमाणेन विधीयते । तस्यां सद्धारशाखायां (प्रा)^२येशः पद्मपत्रिकाः ॥ १४ ॥ कार्यात्रा वाच(वा द्वार)शाखायास्तद्विस्तारसमुच्छ्रिताः । भवेदधस्तादर्धेन ग्रीवाया रसना तथा ॥ १५ ॥ ग्रीवया सार्धया तुल्यमन्तरं पत्रकाण्यधः । भागद्वयं प्रकुर्वीत जङ्घा त्र्यंशा ततोऽप्यधः ॥ १६ ॥ पेद्यापिण्डप्रमाणेने खल्वशाखा विधीयते । पेद्यापिण्डसमो बाह्यशाखान्यासः प्रकीर्तितः ॥ १७ ॥ क्रमेणानेन कर्तव्याः शाखाँः स्वल्पा यदृच्छया । न नवभ्यः परं कार्या द्वारशाखाः कथञ्चन ॥ १८ ॥ निर्गमो वा प्रवेशो वाँ विस्तारेण समन्वितः । पेद्याया यदि वार्धेन शाखानां स विधीयते ॥ १९ ॥ सार्धपेद्यापिण्डसमः पिण्डस्योदुम्बरो भवेत् । तलन्यासस्तदर्धेन भूमिरङ्गा च(ङ्गाञ्च) तत्समाँः ॥ २० ॥ उदुम्बरकपिण्डस्य मानात् सिंहमुखानि च । उदुम्बरात् पादहीनस्तुल्यो वाभ्यधिकोऽथवा ॥ २१ ॥ पट्टस्य पिण्डस्त्रिविधो विस्तारात् स्तम्भतोऽधिकः । भागपादैंसमस्तम्भो द्वादशांशं प्रपीडितः ॥ २२ ॥ भागद्वये च कर्तव्यो रूपलक्षणसंयुतः । चतुष्षष्टिप्रकारोऽयं नानारूपप्रपञ्चतः ॥ २३ ॥ १ द. स्ता । २ द. पश । ३ ख. द. ०ख्या शाखारतन्न यं । ४ ख. द. वा सविस्तारेण संमितः । ५ ख. र्धा । ६ द. उ । ७ क. मा । ८ क. ह । ९ ख. रस्त; द. र । १० ख. दः । वा. ३८