समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 367, कुल 726 में से
संदर्भ में पढ़ें३०२ समराङ्गणसूत्रधारे विचित्रक्षोभणाकीर्णमन्ते वृत्तं मुहुर्मुहुः । अष्टभिश्चाश्रिभिर्मध्ये विगुणन्मन्दारकं भवेत् ॥ ७० ॥ मानोन्मानमथ ब्रूमः प्रासादच्छाद्यसंश्रयम् । अर्धेनच्छाद्यविस्तारस्योर्ध्वं वंशं प्रकल्पयेत् ॥ ७१ ॥ अयमर्धोदयः प्रोक्त आवन्त्यो^१ नामतः परः । त्र्यंशेनच्छाद्यविस्तारस्योदयो^२ वामनो भवेत् ॥ ७२ ॥ वामनावन्त्ययोर्मध्ये नवधा प्रविभाजयेत् । भागोत्तरोदयात्^३ तेऽष्टौ वामनादुदयाः स्मृताः ॥ ७३ ॥ वा(आ)तपत्रोऽथ कौबेरः स(श)^४र्मनारख्यस्तथावली । हंसपृष्ठो महाभोगी नारदः ^५शैम्बुकस्तथा ॥ ७४ ॥ वामनः प्रथमस्तेषामावर्न्त्योते^६(न्त्येन) दशोत्यमी । च्छायानामथ वृत्तानामुदयः प्रोच्यतेऽधुना ॥ ७५ ॥ तलसूत्रसमं कृत्वा कुर्याद् द्वादशधोदयम् । षष्ठादारभ्य भागाँत्^७ स्युः सप्त भागोत्तरोदयाः ॥ ७६ ॥ कुबेरशेखरी चन्द्री नागश्चातु(थ) गणाधिपः । मुख्यश्चाच्छः सुभद्रश्च वृत्ते सप्तोदयाः स्मृताः ॥ ७७ ॥ कृत्वा त्रिकर्करपदं लुमापृष्ठं लिखेत् ततः । भागार्धमधिकं क्षेत्रं^८ भवेच्छाद्यकवर्तना ॥ ७८ ॥ भागार्धवर्धिते क्षेत्रे तलसूत्रक्रमान्विते । लुमामायां लिखेद् भूयः षट् क्रमेणानुसन्ततम् ॥ ७९ ॥ रिक्षा यथाद्विहस्ताय(?) लुमायाः स्यादनन्तरम् । लुमा त्रिभागहीनेन परिवृद्धाङ्गुलेन सा ॥ ८० ॥ तस्याश्चानन्तरा लक्ष्म्या सार्धं वृद्धाङ्गुल^११त्रयम् (?) त्र्यंशोनैः षड्भिरपरा त्र्यंशोनैर्दशभिः परा ॥ ८१ ॥ १ द. ॰त्या । २ क. स्योदयस्यव्यसनो (?) ३ द. ॰ष्टौ च । ४ ख. द. समानाख्य॰ । ५ द. ॰दस्यम्बुका॰ । ६ क. न्त्यौते । ७ ख. द. गाः । ८ क. रञ्चायः । ९ त्रादृ भ । १० थामं- भरायक्ष्म्या सा । ११ ख. द. लं द्वयम् ।