समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 369, कुल 726 में से
संदर्भ में पढ़ेंशेषां लुमां तु दीर्घांशैश्चतुर्भिः प्रविभाजयेत् । चतुर्घातः परं तस्याः कर्तव्यं वृत्तवर्तनम् ॥ ९३ ॥ अर्धोदये लुमोच्छ्रायो विस्तारांशद्वयोन्मितः । मूलेऽग्रतश्च भागार्धमुदयोऽस्या विधीयते ॥ ९४ ॥ अधःक्षेत्रे स विस्तारात् सूत्रमालम्ब्य तद्यथा । विस्तारात् सदृशे क्षेत्रे सार्धतद्भागमाश्रितः ॥ ९५ ॥ लुमाग्रेभागत्र्यंशं च तयोर्मध्यं च यत् स्थितम् । सूत्रं स्पृशेत् तत्र धृत्वा कर्कटं भ्रमयेद् बुधः ॥ ९६ ॥ भागभागोत्तरक्षेत्रापेक्षया चतसृष्वपि । गण्डिकासु विधातव्यं विधिवद् वृत्तवर्तनम् ॥ ९७ ॥ मूलाल्लुमायाः क्षेत्रस्य पञ्चमांशत्रयेऽथवा । पृथुत्वार्धे लुमापृष्ठलेखावृत्तद्वयं यथा ॥ ९८ ॥ संपतत्येवमालिख्य शेषं पूर्ववदाचरेत् लुमाया मूलतः क्षेत्रसप्तमांशचतुष्टये ॥ ९९ ॥ पृथुत्वार्धे लुमापृष्ठलेखावृत्तद्वयं यथा । संपतत्येवमालिख्य षड्भागैः शेषमाचरेत् ॥ १०० ॥ नवांशपञ्चके यद्वा क्षेत्रस्यैव लुमादितः । पृथुत्वार्धे लुमापृष्ठद्वयलेखां निवेशयेत् ॥ १०१ ॥ शेषैः षड्भिस्ततो भागैरन्यत् तु प्राग्वदाचरेत् । भागार्धं निर्गमः कार्यः प्रासादानां कनीयसाम् ॥ १०२ ॥ छाद्यकस्यैव भागैस्तु ज्यायसां निर्गमो यतः । तदन्तरे ये प्रासादास्तेषां क्षेत्रानुसारतः ॥ १०३ ॥ छाद्यस्य निर्गमः कार्यों विद्भिरनुपाततः । निर्गमस्य त्रिभागेन कनीयाञ् छाद्यकोदयः ॥ १०४ ॥
१ ख. द. मायता । २ ख. र्ध; द. र्द्ध । ३ ख. ध्यं यतः स्थितम् । ४ द. त्ति । ५ ख. लानुमा; द. ०नु । ६ क. गः स्युर्निर्गमोक्षायसां मतम् (?)।