समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 370, कुल 726 में से
संदर्भ में पढ़ेंप्रासादद्वारमानादि नाम चतुष्पञ्चाशोऽध्यायः । ३०३ अर्धभागेन परमो भाव्यं षड्भिस्तदन्तरम् । अन्ये भागोत्तराः पञ्च सप्तैव मुदया मताः ॥ १०५ ॥ इदानीमभिधास्यामः सिंहकर्णस्य लक्षणम् । छाद्यो¹दयोदयः स स्याद् दशभिस्तं विभजयेत् ॥ १०६ ॥ तैः स्यात् षोडशभिर्भागैस्तस्यैव तलविस्तृतिः । ऊर्ध्वतश्चतुरो भागांस्त्यक्त्वा शङ्कुं निवेशयेत् ॥ १०७ ॥ चतुर²श्रीकृते क्षेत्रे कर्णेनारभ्य शङ्कुतः । ततो वृत्तं लिखेत् पश्चाच्छङ्कुं समभिरोपयेत् ॥ १०८ ॥ ऊर्ध्वदेशांत् तु भागेन स स्याद् भागचतुष्टये । लिखेद् वृत्तं त्रिभागोनद्व्यंशकर्कट³कोद्भव⁴म् ॥ १०९ ॥ तस्योपरिष्टात् तदनु ग्रीवा कार्यैकभागिनी । गर्भे शृङ्गाग्रयोर्मध्ये⁵ तिर्यग् भागद्वयं भवेत् ॥ ११० ॥ मध्ये कर्णाग्रयोस्तिर्यक् कार्यं भागत्रयं बुधैः । ग्रीवाया उपरिष्टाच्च भागमेकं शिखा भवेत् ॥ १११ ॥ शिखाग्रमुपरिष्टाच्च कर्तव्यं गर्भसङ्गतम् । शिखार्यमूर्ध्वतस्तद्वदर्धभागांवलम्बितम् ॥ ११२ ॥ भागावलम्बि कर्णाग्रं स्कन्धाग्रं तावदेव तु । स्यात् कर्णखण्डयोर्मूलं स्कन्धदेशस्य सङ्गतम् ॥ ११३ ॥ स्वस्तिको¹⁰ द्व्यंशविस्तारायामः प्राग्वृत्तमध्यतः¹¹ । एवं शङ्कुमधःसूत्रादूर्ध्वं भागो¹²(गे) निवेशयेत् ॥ ११४ ॥ भागे निवेशितं कुर्यात् पूर्ववृत्तोद्य¹³शेषतः । स्वस्तिकान्तं चै¹⁴ पूर्वोक्तं पूर्ववत् सर्व¹⁵माचरेत् ॥ ११५ ॥ १ द. यो । २ ख. अंशिकक्षे; द. ॰अंशिकक्षेत्रे । ३ ख. शौ त्रिभागोनैः स; द. ॰शो त्रिभागोनैः सं° । ४ ख. द. य । ५ ख. कैः । ६ ख. द. ॰ध्यं । ७ द. य । ८ ख. र्ध; द. ॰र्द्धं° । ९ ख. द. ग । १० ख. द. कस्कन्ववि । ११ द. ख. मः । १२ ख. द. गर्भ नि° । १३ क. त्या । १४ ख. द. तु । १५ ख. द. मुपा । बा. ३९