समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 371, कुल 726 में से
संदर्भ में पढ़ें३०६ समराङ्गणसूत्रधारे तलसूत्रादुपर्यंशैश्चतुर्भिर्गर्भतः समः( मम् ) द्वाभ्यां द्वाभ्यामुभयतो भागाभ्यां तिर्यगेव च ॥ ११६ ॥ भागेन तद्वदेवाधःसूत्रादुपरि गर्भतः । चतुर्भिश्च चतुर्भिश्च भागैरुभयतः समम् ॥ ११७ ॥ वृत्ताद्धानि लिखेदेककर्णयुक्तानि पूर्ववत् । एकशृङ्गाणि च ग्रीवास्वस्तिकार्धयुतानि च ॥ ११८ ॥ तलसूत्रबहिर्देशाद् बाह्यवृत्तसमुद्भवः२ । पदत्रयप्रविष्टैः स्यात् पार्ष्णिरत्र पॅरिस्फुटः ॥ ११९ ॥ त्रिवलीललितो नाम सिंहकर्णोऽयमीरितः । दशभागीकृते प्राग्वदुदये तत्प्रमाणतः ॥ १२० ॥ चतुर्दशांशविस्तीर्णे कर्णे सार्धे वलिर्भवेत् । दशभागोच्छ्रिते प्राग्वत् स्यात् त्रयोदशविस्तृतः ॥ १२१ ॥ क्षेत्न एकवलिर्नाम सिंहकर्णस्तथापरः । एते शोभान्विताः कार्यास्त्र्यश्रसंवरणाश्रयः ॥ १२२ ॥ प्रासादानामिति निगदितं द्वारमानं निवेशः५ स्तम्भानां च स्फुटमिह वितानानि तेषां लुमाश्च । वृत्तच्छाद्योच्छ्रितिरभिहिता छाद्यसंस्था लुमाश्च प्रोक्ताः सप्त प्रथितमपरं सिंहकर्णप्रमाणम् ॥ १२३ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे प्रासादद्वारस्तम्भनिवेशवितानलुमालक्षणवृत्तच्छाद्यलुमासिंहकर्णप्रमाणं नाम चतुष्पञ्चाशोऽध्यायः ॥ १ क. द्वे । २ द. वाः । ३ क. ष्टा । ४ क. पुरः स्फु । ५ द. शं ।