भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 375, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 375

३१० समराङ्गणसूत्रधारे मिश्रकोऽन्यो विमानानामिति संख्या त्रिधोदिता । ज्येष्ठो मिश्रकनिर्माणः स च कौ१लाशभद्रकृत् ( ? ) ॥ ३५ ॥ मध्यमो जातिशुद्धः स्यात् कनीयान् मञ्जरीयुतः । पञ्चभागयुतं भद्रं विस्तरेण प्रकीर्तितम् ॥ ३६ ॥ कर्णप्राग्ग्रीवविस्तारः कर्तव्यो भागसंमितः । भागार्धं क्षोभणे४ कार्यं तलिपं तज्जलान्तरं( ? ) ॥ ३७ ॥ गुप्तकर्णं तु कर्तव्यं यदिच्छेल्लक्षणान्वितम् । तस्माद् भद्रस्य निष्कंशं( ? ) भागेनैकेन कारयेत् ॥ ३८ ॥ मिश्रकस्य चतुर्भागं भद्रं कुर्याद् विचक्षणः । पञ्चभागोच्छ्रिता जङ्घा खुरपिण्डकया सह ॥ ३९ ॥ द्विभा(गा) रथिका कार्या भूमिः स्याच्चतुरंशका७ । द्वितीयार्धांशहीना च तृतीया भूमिरिष्यते ॥ ४० ॥ चतुर्थ्य(र्थी) तु त्रिभिर्भागैरर्धहीना तु पञ्चमी । उदयो भूमिकाया यः कूटं कुर्यात् तदर्धतः ॥ ४१ ॥ अर्धेन कु८म्भिकां कुर्यादुच्छ्रालंकसमन्विताम् । ऊँ१०र्ध्वभवस्तु( ? ) पञ्चम्या वेदिका भागमुच्छ्रिता ॥ ४२ ॥ घण्टा षड्भागविस्तारा कार्या भागद्वयोच्छ्रितां११ । घण्टोत्सेधं त्रिभिर्भागैर्विभजेत् तदनन्तरम् ॥ ४३ ॥ भागिकानि प्रकुर्वीत कण्ठग्रीवाण्डकानि च । भागं कण्ठप्रदेशैः१२ स्याद् दै१३ण्डिकायाः समुच्छ्रितिः ॥ ४४ ॥ घण्टार्धेन विधातव्या द्विभागा कलशोच्छ्रितिः । सूरसेनादिकं सर्वं कर्तव्यं पूर्ववत् तथा ॥ ४५ ॥ भद्रं मनोरमैश्चेह सिंहकर्णैर्विभूषयेत् । पञ्च१४न्यासेन सूत्रेण पद्मकोशं समालिखेत् ॥ ४६ ॥


१ द. कै । २ द. व । ३ द. वितः । ४ द. णा कार्या यच्छेषं तद् जलांतरम् ॥ ५ द. दी । ६ द. ष्का, ७ द. काः, ८ द. स्त° । ९ द. त्का । १० द. ऊर्ध्वं भवतु । ११ द. ताः । १२ द. शाः । १३ द. च्चद्रि । १४ द. न्या ।