समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 374, कुल 726 में से
संदर्भ में पढ़ेंमेर्वादिषोडशप्रासादादिलक्षणं नाम पञ्चपञ्चाशोऽध्यायः । ३०९ इदानीं सर्वतोभद्रः प्रासादः परिकीर्त्यते ॥ २३ ॥ स स्यात् षड्विंशतिं हस्तान् परमः परिमाणतः । जठरं बाह्यसीमा च भित्तयो ह्यन्धकारिकाः ॥ २४ ॥ जङ्घोत्सेधश्च कर्णौ च यथा मेरोस्तथा स्मृताः । तथैव भद्रविस्तारैः कार्यो भागार्धनिर्गतः ॥ २५ ॥ रथिकैका चतुर्भागा ततेः सार्धद्विभागिका$^३$। तासां परस्परं ज्ञेयो$^४$ भागभागं विधीयते(?) ॥ २६ ॥ षड्भागात् विस्तृतं कार्य शिखरं सप्तमो$^६$च्छ्रितम् । षड्भिर्दशभिर्भागैः स्यान्मूलजा स्कन्धविस्तृतिः( ? ) ॥ २७ ॥ ग्रीवार्धभागमुत्सेधाद्दण्डकं भागमुच्छ्रितम् । मूलसूत्रानुसारेण छेदः संयुज्यते यथा ॥ २८ ॥ अस्य रेखा तथा कार्या सर्वश्रेयःप्रसाधनी$^७$ मेरोरस्य च शृङ्गाणि सिंहकर्णैर्विभूषयेत् ॥ २९ ॥ मञ्जरीं पद्मकोशाग्रतुल्यां सर्वत्र कारयेत् । जयं लक्ष्मीं यशः कीर्त्तिं सर्वानि(णी)ष्टफलानि च ॥ ३० ॥ करोति सर्वतो भद्रं सर्वतोभद्रकः कृतः । सर्वतोभद्रः ॥ चतुरश्रीकृते क्षेत्रे विभागशतभाजिते ॥ ३१ ॥ विमानं विभजेत् प्राज्ञः श्रेयःपुष्टिसुखावहम् । भद्रैश्चतुर्भिसतत् कुर्यात् कर्णप्राग्रीवकैस्तथा ॥ ३२ ॥ पञ्चभूमिर्भवत्येष यदि वा त्रिविधं भवेत् । हस्ताँ$^{११}$स्त्रिंशद् भवेज्ज्येष्ठो मध्यमः पञ्चविंशतिः ॥ ३३ ॥ स्यादेकविंशतिर्हस्तात् कनीयान् षोडशाथवा । जातिशुद्धो भवेदेको मञ्जर्या वै$^{१२}$ परो भवेत् ॥ ३४ ॥
१ क. र्या । २ द. त् । ३ ख. द. काः । ४ क. यो भागं । ५ द. स्तृ° । ६ ख. वो, द. यो । ७ क. र्वाः, ८ क. नीः । ९ द. कर्णौ वि° । १० द. श्रो । ११ द. स्त । १२ द. च ।