समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 377, कुल 726 में से
संदर्भ में पढ़ें३१२ समराङ्गणसूत्रधारे सर्वेषामेव लतिना १मात्रिधा द्विगुणो हि सः (?) । विस्ताराद्२ द्विगुणं सूत्रं स्कन्धाद्यं ३चापि षड्गुणम् ॥ ५८ ॥ सुत्तानितं(?) समाकृष्य पद्मकोशं समालिखेत् । स पञ्चविंशतिर्हस्ता ज्येष्ठः षोडश मध्यमः ॥ ५९ ॥ कनीयान् द्वादशकरश्छस्यो४( ? ) विजानता । ज्येष्ठस्य भागसंख्येयमेतदर्धेन मध्यमः ॥ ६० ॥ मध्यमस्य तथार्धेन कनीयान् भागसंख्यया । भागषट्कमिता जङ्घा ज्येष्ठस्य परिकीर्तिता५ ॥ ६१ ॥ सप्तभागोच्छ्रिता सा स्यान्मध्यमे सकनीयसि । सर्वेषां लतिनामेष क्षेत्रेण विधिरीरितः६ ॥ ६२ ॥ स्वस्तिकोऽयं समाख्यातः स्वस्तिश्रेयस्करो७ नृणाम् । स्वस्तिकः ॥ इदानीं मुक्तकोणस्य सू( ल )क्ष्म ब्रूमः स तु९ त्रिधा ॥ ६३ ॥ षोडश द्वादशाष्टौ च हस्तसंख्या परस्य च । ज्येष्ठः षोडशभिर्भागैर्मध्यो१० द्वादशभिर्भवेत् ॥ ६४ ॥ कनीयानष्टभिः प्रोक्तः प्रासादो मुक्तकोणकः । मुक्तकोणस्वस्तिकयोरिदमेवान्तरं भवेत् ॥ ६५ ॥ स्वस्तिको वर्तुलस्तत्र चतुरश्रोऽपरः स्मृतः । पञ्चभागोन्नता१२ जङ्घा द्वौ भागौ रथिका भवेत् ॥ ६६ ॥ भागैश्चतुर्भिः कर्तव्या द्वितीया तस्य भूमिका । येषास्त्वर्धार्धभागेन विधेयास्त( द्व ? )स्य भूमिकाः ॥ ६७ ॥ विधाय नवधा गर्भैस्तै१३स्त्रयोदशभिर्भवेत्११ । जङ्घापादोनपञ्चाशैराद्यैकः१४ष्पणिकाँ१५( ? ) भवेत् ॥ ६८ ॥ मुक्तकोणः । विस्तारं दशधा कृत्वा षड्भागं मध्यमालिखेत् । १ द. मात्स्कंधाद् । २ द. त्रि । ३ द. श्रद्धापि । ४ द ष्ट । ५ द.ः प्रारब्धव्यो विजानता । ६ द. ताः । ७ द. वीर्°। ८ द. रा । ९ द. क्त । १० द. च । ११ द. ध्ये । १२ द. च्छ्रोन्ना । १३ द. गर्भं तंत्रयो° । १४ द. जे । १५ द. का। १६ द. शुं° ।