समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 378, कुल 726 में से
संदर्भ में पढ़ेंमेर्वादिषोडशप्रासादादिलक्षणं नाम पञ्चपञ्चाशोऽध्यायः । ३१३ १कर्णा द्विभागिको( ? )मध्यं चतुर्धा विभजेत् पुनः ॥ ६९ ॥ तदून्मध्ये कृतौ द्व्यंशौ ३भागिकौ वामदक्षिणौ । अङ्गुलीकरसंख्यातैर्विधेयो रथनिर्गमः ॥ ७० ॥ प्राग्ग्रीवैर्विकटैः स्वष्टैः स्तम्भैः ४सद्भूषकर्मभिः( ? ) । एवं गुणै५समायुक्तः श्रीवत्सः६ सुखदो भवेत् ॥ ७१ ॥ द्व्यङ्गुलं त्र्यङ्गुलं वापि चतुरङ्गुलमेव च । उदकान्तरकं कार्यं श्रीवत्सो नन्दनो(त्से नन्दने)पि च ॥ ७२ ॥ श्रीवत्सः ॥ विस्तारैर्दशधा भक्तैः षड्भा(गा)मञ्जरी भवेत् । सर्वतोभद्रवन्मूलकर्णावस्य द्विभागिकौ ॥ ७३ ॥ उदकान्तरमन्य(प्य)स्य श्रीवत्सस्यैवं कल्पयेत् । हंसोऽयं कीर्तितः सम्यक् शुभदो लक्षणान्वितः ॥ ७४ ॥ हंसः ॥ रुचकोऽप्येवमेव स्यादुदकान्तरवर्जिता( र्त)म् । भित्तयश्चतुरंशेन गर्भो व्या सार्धसंम९तः ॥ ७५ ॥ रुचकः ॥ चतुरश्रीकृते क्षेत्रे विभजेद् दशभिः पदैः । विदध्यादर्ध१०मानाख्यं तत्र भ्रान्तमनुक्रमात् ॥ ७६ ॥ भद्रस्यै११ च भवेद् भागैश्चतुर्भिः परिविस्तृतम् । एकेनैकेन भागेन द्वौ रथौ वामदक्षिणौ ॥ ७७ ॥ द्विभागविस्तृतौ कर्णौ निर्गमः स्यात् कराङ्गुलैः । वर्धमानैः१२ क्रियायुक्तो यशोलक्ष्मीं १३विवर्धयेत् ॥ ७८ ॥ रुचको वर्धमानो वा श्रीवत्सो हंस एव च । य एको रोचते तेषु न्यसेत् तं गरुडे सुधीः ॥ ७९ ॥ १ द. कर्णो द्विभागिकौ । २ द. तत्र मध्ये कृतो द्व्यंशो । ३ द. तौ वि० । ४ द. सद्भू० । ५ द. णः । ६ द. त्सुभवो । ७ द. स्यै । ८ द. तः । ९ द. मितेः । १० द. र्द्धं । ११ द. मस्य । १२ द. न । १३ द. च । वा. ४०