समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 394, कुल 726 में से
संदर्भ में पढ़ेंरुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः । ३२९ मालाधारः स विज्ञेयः सबाह्याभ्यन्तरः समः । मालाधरः ॥ मालाधरस्य संस्थाने यत् क्षेत्रं पूर्ववत् स्थितम् ॥ ८५ ॥ उदकान्तरविच्छिन्नं पद्मं तत्र निवेशयेत् । तथाग्रे कारयेत् कर्ण²व्यासाधैन विनिर्गमान् ॥ ८६ ॥ पद्मपत्रनिभाकारान् जातिशुद्धान् सलक्षणान् । पद्मः ॥ षड्भागनायते³ क्षेत्रे विस्तारे⁴ चतुरश्रके ॥ ८७ ॥ द्विभागौ⁵ विपुलो गर्भश्चतुर्भागायतो भवेत् । गर्भंवासमितं सूत्रं पदपादसमन्वितम् ॥ ८८ ॥ वृत्ताधं भ्रमयेत् तेन दक्षिणेनोत्तरेण च । सीमाविस्तारसूत्रेण पदपाद्युतेन च ॥ ८९ ॥ पुरतः पृष्ठतश्चापि तद्वृत्तमन्वर्तयेत् । वृत्तक्षेत्रमिदं तस्य भागैर्द्वादशभिर्भवेत् ॥ ९० ॥ द्विभागो भद्रविस्तारो भागिकी भागविस्तृतिः भद्राणां च रथान्मध्ये भागेनैकेन विस्तृताँ⁷( ? ) ॥ ९१ ॥ उदकान्तरकं चात्र मालाधरवदाचरेत् । वृत्तायतस्तु कर्तव्यः प्रासादो मलयाभिधः ॥ ९२ ॥ मलयः ॥ मलयस्यैव कर्णेषु रथिकांन् यदि कल्पयेत् । ¹⁰उदकान्तरविच्छिन्नान् पदषड्भागनिर्गतान् ॥ ९३ ॥ पीठोत्सेधश्च जङ्घा च शिखरं चात्र यद् भवेत् । एकमात्रौसमायुक्तं लतिनाँ¹² ते(?) प्रतीयते(न्तर्विधीयते ) ॥ ९४ ॥ ¹³त्र्यंमाशा(त्र्यश्रा)णां चतुरश्राणां कोणेष्वर्धपरिक्षयात् (?)। अष्टाश्रं जायते यत्र वाजाग्रमपि तां नरम् (?) ॥ ९५ ॥ १ द. ध । २ द. कर्णा न्यां । ३ द. ता । ४ द. रा । ५ द. ग । ६ द. वृत्तार्ध...वृत्तमन्व- र्तयेत् । प्रतौ नास्ति । ७ द. नाः । ८ द. भवेत् । ९ द. थ । १० द. उदकान्तरविच्छिन्नान्...चात्र यद् भवेत् पुस्तके नास्ति । ११ द. न । १२ द. ललिनां तद्विधीयते । १३ द. प्रासादः सर्वकामार्थः भुक्तिमुक्तिप्रदायकः...सपादमिहधारयेत् । प्रति पाठः । वा. ४२