भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 403, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 403

३३८ समराङ्गणसूत्रधारे। दिक्‌सूत्रैरस्य सर्वेषु क्रियां प्राग्वत् प्रकल्पयेत् । जङ्घोच्छ्सेधश्च२ कर्णश्च शिखरं चास्य यद् भवेत् ॥ १८५ ॥ हिमवत्सदृशं सर्वं विधेयं तद् विजानता । हेमकूट इति ख्यातः प्रासादोऽयं जगत्त्रये ॥ १८६ ॥ एष त्रिमूर्तिनिलयः कार्यो नान्यस्य कस्यचित् । हेमकूटः ॥ ३हिमवत्तुल्यसंस्थानं४ प्रासादं५ परिकल्पयेत् ॥ १८७ ॥ तस्य६ मध्ये विधातव्यः सर्वतोभद्रसंज्ञितः । वर्जनीयं तु तन्मध्ये वर्धमानं७निवेशनम् ॥ १८८ ॥ ततः स्थानेषु सर्वेषु खण्डरेखां निवेशयेत् । व्यासोच्छ्रितैस्ततः सिंहकर्णैर्भद्रं विभूषयेत् ॥ १८९ ॥ ऊर्ध्वं च शिखरं तस्य वर्जनीयं विचक्षणैः । द्वे द्वे च रथिके कार्ये सपादांशकोच्छ्रिती८ ॥ १९० ॥ तयोश्चोपरि विस्ताराच्छिखरं चतुरश्रकम् । उच्छ्रयः पञ्चभिः सार्धैर्विधेयः शिखरस्य च ॥ १९१ ॥ दिक्‌सूत्रेषु ९च सर्वेषु क्रियामेवं प्रकल्पयेत् । बाह्यरेखा १०तु जङ्घा च हिमवत्सदृशी स्मृता ॥ १९२ ॥ कैलासोऽयमिति ख्यातः कर्तव्यः शूलपाणये । कैलासः ॥ एतस्यैव यदा भद्रमुच्छ्रितं११ सिंहकर्णकैः ॥ १९३ ॥ द्वे द्वे च रथिके तत्र दीर्ये(ये)ते १२सुमनोरमे । शेषैः१४ शिखरविस्तारः पञ्चभागसमुच्छ्रितः ॥ १९४ ॥ प्राग्ग्रीवकाश्च भद्रेषु भागै१६भागविनिर्गताः । विस्तारेण चतुर्भागा दिक्षु सर्वास्वयं विधिः ॥ १९५ ॥ १ द. दिक्‌सूत्रेष्वस्य सर्वेषु । २ द. ॰धस्य कर्णस्य । ३ द. हे । ४ द. ने । ५ द. ॰दे परि- कल्पिते । ६ द. तस्या । ७ द. नं । ८ द. खां । ९ द. ते । १० द. प्रतौ पाठः नास्ति । ११ द. च । १२ द. जितं शंख । १३ द. पुस्तके नास्ति । १४ द. स । १५ द. ष । १६ द. गं । १७ द. स्त ।