भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 404, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 404

रुचकादिचतुष्षष्टिप्रसादकः षट्पञ्चाशोऽध्यायः । ३३२ विमानसदृशी चास्य बाह्यलेखा विधीयते । गुणैरेभिस्तदा युक्तः प्रासादः पृथिवीजयः ॥ १९६ ॥ पृथिवीजयः ॥ भक्ते षोडशभिः क्षेत्रे चतुरश्रे समन्ततः । गर्भोऽष्टवर्गः स्यात् तस्य मध्ये भित्तिर्द्विभागिका ॥ १९७ ॥ भ्रमणं बाह्यभित्तिंश्च तत्समे एव कीर्तिते³ । कर्णेषु रथिका कार्या सलिलान्तरभूषिताँ ॥ १९८ ॥ तत्तुल्यायामविस्तारा रथिकाः स्युस्तथापराः । तद्भूत् तृतीयरथिका भद्रं चतुष्पदायतम् ॥ १९९ ॥ विस्तारार्धेन निष्क्रान्तं क्षोभयेद् वर्धमानतैः । ⁶वरण्ड्यन्तरपत्रे च सार्धे( र्ध )भागेन कारयेत् ॥ २०० ॥ उपर्युपरि भांगान् हि हीनाः स्युः क्रमशोभवः (?) । भद्रे रथिकयोर्मध्ये सिंहकर्णो⁹ विधीयते ॥ २०१ ॥ एतस्य चोच्छ्रयो भागैः पञ्चभिः परिकीर्तितः । पार्श्वस्थे सिंहकर्णस्थंरथिके ये निवेशिते ॥ २०२ ॥ तयोरुपरि षड्भागं विस्तृतं शिखरं भवेत् । विधेयमुच्छ्रयेणैतत् त्रिं¹¹भागान् सप्ताथ(प्रै¹⁴)वाधिकान् ॥ २०३ ॥ पक्षयोरुभयोस्तस्य रथिके (चैं¹³) तदूर्ध्वतः । सिंहं निवेशयेद् दिक्षु निखिलाखप्ययं विधिः ॥ २०४ ॥ मूलकर्णे ततश्चार्धं शिखरं दशविस्तृतम् । एकादशोच्छ्रितं कार्यं क्रमवृत्त्या मनोरमम् ॥ २०५ ॥ चतुर्गुणेन सूत्रेण वेणुकोशं ततो लिखेत् । पूर्वोक्ता सांतरंभागेरमुष्या(?) विभजेत् त्रिभिः ॥ २०६ ॥

१ द. पुस्तके पाठः नारित । २ द. तेस्तु । ३ द. के( की )र्च्यते । ४ द. ताः । ५ द. कः । ६ द. इतः पूर्वं-चतुरुष्वपि चाशासु विधातव्यो विधिर्बुधैः । अष्टभागोच्छ्रिता जंघा खुरकश्च तदर्द्धतः ॥ पुस्तकस्य अधिकः पाठः । ७ द. भागांह्रीहीँ । ८ द. भुवः । ९ द. र्णौ । १० द. ०र्णस्तु रथिको । ११ द. पुस्तके नास्ति । १२ द. पुस्तके नास्ति । १३ द. ०के ये तं । १४ द. श्चोर्द्धं । १५ द. ०ध्या । १६ द. ०क्तास्यांतरं भागैरमुष्य वि० ।