समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 406, कुल 726 में से
संदर्भ में पढ़ेंरुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः । ३४१ रत्नकूटः समाख्यातः प्रासादः श्रीपतेरयम् । रत्नकूटः ॥ चतुरश्रीकृते क्षेत्रे विंशत्या भाजिते१ऽंशकैः ॥ २१७ ॥ कुर्याद् विभागविस्तारौ२ रथिकाः पञ्च कर्णगाः । पञ्चोपरि पुनः पञ्च दद्यादेकां तदूर्ध्वतः ॥ २१८ ॥ प्रथमा भूमिका चास्य कार्या भागत्रयोच्छ्रिता३। पादपादविहीनास्तु क्रमेणापरभूमयः ॥ २१९ ॥ भद्रकर्णान्तरस्थे४ द्वे रथिके ये तदूर्ध्वतः । शिखरं दशविस्तारं कुर्यात् सार्धदशोच्छ्रितम् ॥ २२० ॥ मूलकर्णानुसारेण शिखरं तत्र यद्५ भवेत् । तस्य द्वादशविस्तारं त्रयोदशसमुच्छ्रितम् ॥ २२१ ॥ भद्रं विभूषयेत् पत्रैः६ सिंहकर्णैर्मनोरमैः७। पञ्चव्यासेन सूत्रेण वेत्रकोशं समालिखेत् ॥ २२२ ॥ स्कन्धकोशान्तरं चास्य त्रिभिर्भागैर्विभाजयेत् । पद्मशीर्षं तथा ग्रीवां सार्धभागेन कारयेत् ॥ २२३ ॥ कुर्याद् भागेन भागेन कुम्भं चामलसारकम् । नवभागोच्छ्रितां जङ्घां तदधंस्वर९पिण्डकाम् ॥ २२४ ॥ वरण्ड्यन्तरपत्रं च कुर्याद् भागद्वयेन च । वैदूर्यो१०ऽयं समाख्यातः प्रासादो दानवद्विषः ॥ २२५ ॥ वैडूर्यः ॥ एतस्यैव८ यदा भद्रे भद्रे स्याद् वर्धमानकः । पद्मरागस्तथैवै११ स्याद् कार्योऽयं पद्मरागैः१२तः ॥ २२६ ॥ पद्मरागैः१३ ॥ पद्मरागस्य भद्रेषु वर्धमानं विवर्जयेत् । भद्रस्य पार्श्वद्वितये प्रदद्याद् रथिकाद्वयम् ॥ २२७ ॥ १ द. कं । २ द. रः । ३ द. ताः । ४ द. कर्णभद्रा० । ५ द. तत् स्याद्वा० । ६ द. ०द्रलैः । ७ द. हरैः । ८ द. एवं । ९ द. र्धखुरं० । १० द. डूं० । ११ द. ०दैष । १२ द. जन्मनाः । १३ द. पुस्तके नास्ति ।