भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 408, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 408

रुचकादिचतुष्षष्टिप्रसादकः षट्पञ्चाशोऽध्यायः । ३४३ राजहंसस्य संस्थाने तृतीये'(य)रथिकोपरि ॥ २३८ ॥ यदोर(स्य)शिखरं सप्तसमुच्छ्रायं षडायसम् । स्यात् तदा गरुडो नाम गरुडध्वजवल्लभः ॥ २३९ ॥ प्रासादः सर्व† ³ + + + + + कारयितुस्तथा । गरुडः ॥ अस्यैव मूलशिखरं त्यक्त्वा भागद्वयोन्मितम् ॥ २४० ॥ क्रियन्ते रथिकाः पू⁴(क)र्णे तदूर्ध्वं मूलमञ्जरी । क्रियते द्वादशोच्छ्राये⁵(या) दशभागायता यदा ॥ २४१ ॥ तदा स्याद् वृषभो नाम वृषभध्वजवल्लभः । वृषभैः ॥ स(श)तार्धहस्तविस्तारं ज्येष्ठं मेरुं प्रकल्पयेत् ॥ २४२ ॥ मध्यमे हस्तसंख्या स्यात् (षट्त्र्यं द्विकालाधिकः?) । दशत्रिगुणितां (हस्ताभ्यां?)संख्या प्रोक्ता कनीयसि ॥ २४३ ॥ चतुरश्रीकृते क्षेत्रे भागविंशवि¹²(ति)भाजिते । विस्तारार्धं भवेद् गर्भगृहं¹³(र्भगृहं)भित्त्या समन्वितम् ॥ २४४ ॥ भागप्रमितविस्तारा गर्भभित्तिर्विधीयते । सार्धद्विभागान्या भित्तिस्तदूर्ध्वान्धकारिका( : ? ) ॥ २४५ ॥ द्विभागा रथिका कार्या कर्णे¹⁴ कर्णे विजानता । चतुर्भागा रथा भद्रेष्वेतदर्धेन (वि?)निर्गताँ¹⁵ ॥ २४६ ॥ भद्रकर्णान्तयोः कार्या¹⁶ यदाष्टांश(यं¹⁷ तदष्टांशं)जलान्तरम् । भद्राणां रथिकाः कार्याः पार्श्वयोरुभयोस्तथा ॥ २४७ ॥ १ द. पुस्तके पाठः नास्ति । २ द. यदोरः शि° । ३ द. कामाप्त्यै कर्तुः । ४ द. पुस्तके नास्ति । ५ द. पुस्तके 'ये' इति पाठः नास्ति । ६ द. प । ७ द. पुस्तके नास्ति । ८ द. पुस्तके नास्ति । ९ द. षट्त्रिंशद्विकलाधिका । १० द. गुणिता हस्ता । ११ धनूरेखान्तर्गत 'हस्त' इति स्यात् । १२ द. 'वि' इति पाठः नास्ति । १३ द. गर्भं गृह । १४ द. र्याः । १५ द. विस्तृताः । १६ द. कार्यं पादाष्टांशजं । १७ द. °का कार्या । † 'कामार्थः कर्तुः' इत्येवञ्जातीयं लुप्ताक्षरस्थाने निवेश्यम् ।

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र) · पृष्ठ 408, कुल 726 में से · BharatKosha