समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 411, कुल 726 में से
संदर्भ में पढ़ें३४६ समराङ्गणसूत्रधारे चतुःषष्टिकरे कुर्यात् क्षेत्रे$^१$ मानैकविंशतिः ( ?) । सप्तवर्गपदो गर्भो भित्त्या सह विधीयते ॥ २६९ ॥ स्याद्$^२$ गर्भभित्तिर्भागेन भागेनैवान्धकारिका । षड्भागं कर्णविस्तारं दशधा प्रविभाजयेत् ॥ २७० ॥ षड्भिर्भागैर्भवेदस्य$^३$ गर्भो भित्त्या समन्वितः । बाह्या भित्तिर्भवेद् भागाद् भागैश्चैवान्धकारिकाौ$^४$ ॥ २७१ ॥ द्विभागं कर्णवैपुल्यमुदकान्तरभूषितम् । शेषो भद्रस्य विस्तारश्चतुर्थांशविनिर्गतः ॥ २७२ ॥ क्षोभयेदर्धभागे$^५$ तु तदर्धेन जलान्तरम् । मत्तवारणकैर्विद्याँत्$^६$ स्तम्भैरुपरि शोभिताः$^८$ ॥ २७३ ॥ रथिकैका त्रिभागेन पुनः सार्धद्विभागिका$^९$ । तासां परस्परक्षेपो भागो भागो विधीयते ॥ २७४ ॥ शेषं शिखरविस्तारः$^१$$^०$ सार्धषट्कं तदुच्छ्रयैः$^१$$^१$ । पृथक्सूत्रैस्त्रिगुणितैर्वेणुकोशं समालिखेत् ॥ २७५ ॥ स्कन्धकोशान्तरं भागैश्चतुर्भिस्तस्य भाजयेत्$^१$$^२$ । ग्रीवार्धभागमुत्सेधो भागेनामलसारकम् ॥ २७६ ॥ पद्मशीर्षस्तै$^१$$^३$(र्षं त)था भागं कलशो भागसंमितः । अर्धभागसमो(मुै$^१$$^४$)त्सेधं कारयेद् बीजपूरकम् ॥ २७७ ॥ सर्वकर्णेषु कर्तव्याः$^१$$^५$ क्रियाश्चैवं विचक्षणैः । दिक्सूत्रबाह्यभागेषु वलभी$^१$$^६$ संनिवेशयेत् ॥ २७८ ॥ निर्गमे पञ्चभागः स्यात् तिर्यक् प्रैक्षिप्तभागिकाः ( ?) । अस्यां$^१$$^८$ द्विभागिको गर्भो मंध्ये$^१$$^९$ भागत्रयोच्छ्रितः ॥ २७९ ॥ १ द. क्षेत्रांशानेकविंशति । २ द. भा । ३ द. ष्ध । ४ द. गा । ५ द. काः । ६ द. गं । ७ द. ॰वैद्या । ८ द. नः (तः) । ९ द. काः । १० द. र । ११ द. या । १२ द. व । १३ द. प्रतौ नास्ति । १४ द. नास्ति । १५ द. ॰व्या क्रिया सैवं । १६ द. भां । १७ द. स्यात्सप्तभागिकः । १८ द. स्य । १९ द. मध्यभागत्रयायतः ।