भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 412, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 412

रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः । ३४७ भागार्ध॑भागं भित्तिः स्यात् तत्समा चान्धकारिका । तस्याश्चाग्रे विधातव्यः(?) षड्दारुकसमन्वितम् ॥ २८० ॥ एकैकां रथिकां सार्धभागां कर्णेषु योजयेत् । शेषं भद्रस्य विस्तारो भागः स्यादस्यै निर्गमः ॥ २८१ ॥ एवं भद्रं विँ(द्वि)भागं स्यात् स्तम्भद्वयसमन्वितम् । वैलभावर्तयोर्मध्ये भागमेकं च विस्तृतम् ॥ २८२ ॥ तँत्रोदकान्तरं कुर्याद् गुणद्वारविभूषितम् । नवभागोच्छ्रिता जङ्घा पीठमस्य तदर्धतः ॥ २८३ ॥ मेखलान्तरपत्रे च कुर्याद् भागद्वयोन्मिते । रथिका स्याद् द्विभागा च ततः सार्धैकभागिका ॥ २८४ ॥ शेषं शिखरविस्तारः पञ्चांशं शिखरोच्छ्रयः । उपर्युपरि कर्तव्यं सर्वतोभद्रकद्वयम् ॥ २८५ ॥ द्वे द्वे च सर्वतोभद्रे कर्णे कर्णे निवेशयेत् । दिक्सूत्रेषु समस्तेषु क्रियामेवं प्रकल्पयेत् ॥ २८६ ॥ विस्तार शिखरस्याष्टौ भागांस्तस्यार्धसमुच्छ्रयः(?) । पञ्चव्यासेन सूत्रेण +++++++॥ २८७ ॥ वेणुकोशान्तरं चास्य त्रिभिर्भागैर्विभाजयेत् । ग्रीवां च पद्मशीर्षं च भागेन स्यादिदं द्वयम् ॥ २८८ ॥ प्रत्येकं भागिकौ कार्यों कलशामलसारकौ । तैँ(न)वात्मकोऽयं कथितः प्रासादस्त्रिदशालयः ॥ २८९ ॥ नवात्मकः ॥ १ द. °र्द्ध भागभित्तिः । २ द. ‘तस्याश्चाग्रं विधातव्यम्’ इति स्यात् । द. पुस्तके ‘तस्य वाग्रं विधातव्यः षद्दारक°’ । ३ द. र्द्ध । ४ द. पुस्तके नास्ति । ५ द. व्यललीकर्णयोर्मध्ये । ६ द. तं° । ७ द. ज्ज । ८ ‘विस्तारः शिखरस्याष्टौ भागः सार्धे समुच्छ्रयः’ इति स्यान् । ९ द. भागान् सार्धान् सं° । १० द. ‘वेणुकोशं समालिखेत्’ इति चतुर्थपादः स्यान् । द. वेणुकोशं समालिखेन् ॥ ११ द. स्कंध । १२ द. वां । १३ द. क । १४ द. पुस्तके नास्ति ।