समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 413, कुल 726 में से
संदर्भ में पढ़ें३४८ समराङ्गणसूत्रधार विन्यसेद् दिं(दी)शमैशान्यामाग्रेय्यां पुरुषोत्तमम् । ब्रह्माणं वायुदिग्भागे नैर्ऋते चं दिवाकरम् ॥ २९० ॥ मध्यगभें शिवः स्थाप्यः प्राच्यामपि पुरन्दरः । धर्मोयैमां(याम्यां) प्रतीच्यां च वरुणः सोम उत्तरे ॥ २९१ ॥ (भक्ताठा ?) शक्तिसम्पन्नः पूर्वायतनसन्निधौ । प्रासादं कारयेद् यत्नात् तदाद्यं नैव पीडयेत् ॥ २९२ ॥ उत्कृष्टमपंकृष्टं वा यत्र स्थाने निवेशयेत् । प्रासादं तत्र कर्माणि यानि तान्यभिदध्महे ॥ २९३ ॥ सम्मुखं नैव कुर्वीत हीनं वा यदि वाधिकम् । वेदभागास्तं तव सश्चितस्तंस्या स्यात्प्रासादोऽतिविगर्हितः(?)॥२९४॥ अन्योन्यं दक्षिणे वेधो हीन इत्यभिधीयते । वेधभागामृते ( ? )मृत्युं हीने हानिं विनिर्दिशेत् ॥ २९५ ॥ हरो हिरण्यगर्भश्च हरिर्दिनकरस्तथा । एते देवाः समाख्याताः परस्परविरोधिनः ॥ २९६ ॥ एता न दक्षिणापार्श्वे स्थापयेत् पुरमाश्रितान् (?)। वामतो नान्यदेवानां ना(स्ति ?)पि हीनालयेषु च ॥ २९७ ॥ नैतेषां दक्षिणे कुर्यादन्येषामपि चालयम् । हीनं वा यदि वाहीनं यदिच्छेच्छ्रिय आत्मनः ॥ २९८ ॥ तेषामुत्तरतो नू(ही)नं यदि(दी)च्छेद् देवातालयम् । प्रासादपदमानेन नवषट्त्रिंशदा(द)न्तरे ॥ २९९ ॥ प्रासादं कारयेदन्यं मर्मवेधविवर्जितान् (तम्) । पुरतः पृष्ठतो वापि पार्श्वयोरुभयोरपि ॥ ३०० ॥ १ द. नास्ति । २ द. मी । ३ द. वा । ४ द. रं । ५ द. पाच्यां । ६ द. अतःपरं नवात्मकः इति पुस्तकस्य पाठः । ७ द. भक्तीच्छाशक्तिसंपन्न पू० । ८ द. यां । ९ द. व । १० द. वेधभागाश्रित- स्तस्याप्रा० । ११ द. ०गा सृते नृत्यं ।