समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 418, कुल 726 में से
संदर्भ में पढ़ेंमेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३५५ निर्गते चार्धभागेन सममाने मनोरमे । द्विपदा रथिका भद्रे निर्गतार्धपदेन सा ॥ ५५ ॥ चतुष्कं( ष्क )र्णेषु कर्तव्यं ( मानमेवमेवंघुतु ?) धीमता । बाह्यभित्तेस्तु विस्तारस्त्रिपदः परिकीर्तितः ॥ ५६ ॥³ चतुःषष्टिपदो गर्भस्तद्द्भित्तिस्त्रिपदा भवेत् । त्रिपदं कर्णमानं स्याद् वारिमार्गेण संयुतम् ॥ ५७ ॥ पदार्धं वारिमार्गः स्यात् पदमस्य प्रवेशकः । शालाष्टपदविस्तीर्णा भागार्धेन विनिर्गता ॥ ५८ ॥ चतुर्भागायतौ भद्रं पुनर्भागार्धनिर्गतम् । तलन्यासौ(सो) हेमकूटे विभक्तपदनिश्चयात् ॥ ५९ ॥ ⁶अस्याग्रे मण्डपं कुर्यान्महान्तं गुणपूजितम् । ऊर्ध्वं (तु) हेमकूटस्य द्विगुणं स्यात् कलाधिकम् ॥ ६० ॥ अधस्तादासनं तस्य सप्तभागसमुच्छ्रितम् । भागेनैकेन खुरके७ न मध्ये पूर्वमानयोः८ ॥ ६१ ॥ अत ऊर्ध्वं पुनर्व्रूमः पादमानमनुक्रमात् । सप्तभागोन्नतं कुर्याद् वेदीबन्धे(न्धं)९ सुशोभनम् ॥ ६२ ॥ तस्यार्धं कुम्भकं१०स्यार्ध( ?) भागेन कलशोन्नतिः । ११पदार्धेनान्तरं पत्रं यथाशोभं विधीयते ॥ ६३ ॥ सार्धं पदं पुनः प्रोक्ता कपोताली सुशोभना । दशभागोच्छ्रिता जङ्घा कर्तव्यातिसुलक्षणा ॥ ६४ ॥ अस्योपरि विधातव्यं भरणै१२(णं) द्विपदोच्छ्रितम् । मेखलान्तरपत्रे तु विधीयेते पदत्रये ॥ ६५ ॥ अधस्तान्मेखलायास्तु खुरकस्य तथोपरि । एकोनविंशतिं भागानन्तरं संप्रचक्षते१३ ॥ ६६ ॥ १ द. पुस्तके नास्ति । २ द. मानमेवं तु धी० । 'मानमेवं तु' इति स्यात् मुद्रिते पुस्तकेऽपि अयमेव पाठांतरः स्वीकृतः । ३ द. तस्याश्चान्तरः कार्यों भ्रमणी त्रिपदायता । चतुर्दशपदः कंद्रो विस्तरेण प्रकीर्तितः ॥ पाठः । ४ द. तं । ५ द. प्रतौ नास्ति । ६ द. अथास्य । ७ द. को । ८ द. या । ९ द. प्रतौ नास्ति । १० द. कः सार्धं । ११ द. पा । १२ द. णैर्द्वि० । १३ द. क्ष्यते ।