समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 417, कुल 726 में से
संदर्भ में पढ़ें३३४ समराङ्गणसूत्रधारे स्कन्धमानं हि सर्वेषां यथोक्तं शतवास्तुनि । ग्रीवा सार्धपदांशा स्यादण्डकं द्विपदान्वितम् ॥ ४४ ॥ कङ्कतीफलतुल्यानि कुर्यात् सर्वाण्डकानि च । द्विपदं² च(म)पिण्डिकायुग्मं कार्यं सामलसारकम् ॥ ४५ ॥ तस्योपरि स्यात् कलशो वर्तुलस्त्रिपदोच्छ्रितः । तोरणैर्मकरैः पत्रैः साग्रैश्च³ सव(म)रालकैः ॥ ४६ ॥ हस्तिमण्डैः⁴ समाकीर्णमर्धै(प्स)रोगणभूषितम् । ईदृशं श्रीधरं कुर्यात् सर्वालङ्कारभूषितम् ॥ ४७ ॥ श्रीधरं कारयेद् यस्तु किञ्चिदर्थमपि मानवः । इहैव लभते⁶(वसत:?) सौख्यममुत्रेन्द्रत्वमाप्नुयात् ॥ ४८ ॥ भोगान् भुक्त्वा पुमान् स्वर्गं⁸ नीयते⁹ च परे पदे । सर्वपापविनिर्मुक्तः शान्तश्च स्यान्न संशयः ॥ ४९ ॥ श्रीधरः ॥ हेमकूटमथ ब्रूमः शुभलक्षणसंयुतम् । सर्वविद्याधरस्थानमाश्रयः स पिनाकिनः ॥ ५० ॥ चतुरश्रीकृते क्षेत्रे षड्विंशत्यंशभाजिते । तत्र स्युः षट्पदाः कर्णाः शाला द्वादशभागिकाः ॥ ५१ ॥ निर्गताश्च त्रिभिर्भागैर्भवन्त्येताश्चतुर्दिशम् । अष्टभागायतो¹² भूयो निर्गमश्च¹³ त्रिभिः पदैः ॥ ५२ ॥ चतुःस्तम्भाश्चतुष्पार्श्व¹⁴(र्श्वा) दिक्षु सर्वास्र्वयं विधिः । कर्णशालान्तरं कार्यं पदेनैकेन¹⁵ विस्तृतम् ॥ ५३ ॥ प्रविष्टं तत् पदेनैकं¹⁶ तदेवात्र जलान्तरम् । पदेन कर्णे कोणः स्यात् प्रत्यङ्गे पदविस्तृते ॥ ५४ ॥ १ द. द । २ द. तीयं च । ३ द. ग्रासैश्च स वं । ४ द. तु । ५ द. प्रतौ पाठः नास्ति । ६-७ द. प्रतौ नास्ति । ८ द. स्व । ९ द. र्गे । १० द. शांतः स्यान्नात्र संशयः । ११ द. पता । १२ द. तो । १३ द. ता । १४ द. ष्पाश्च । १५ द. भागे । १६ द. व ।