समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 421, कुल 726 में से
संदर्भ में पढ़ें३५८ समराङ्गणसूत्रधारे भित्तिः स्यात् पदविंशत्या तत्र कन्दसमाः सृ(स्मृ¹)ताः । कर्णाः प्रत्यङ्ग²को(का³)न्येषां प्रत्येकं पदविस्तरात् ॥ ८९ ॥ द्वयंशो मध्यंग³विस्तार उभयोर्निर्गतँ⁴(म)ः पदम् । द्वयंशः सैरसि⁵(?)विस्तार आक्रान्त⁶पदनिर्गमैः ॥ ९० ॥ द्विपदा बाह्यभित्तिः स्याद् विस्तारेण सुशोभिताँ⁷(ः ?) । चतुष्पदायतः कर्णो भद्रं तस्य द्विभागिकम् ॥ ९१ ॥ निर्गमोऽस्यार्धभागेन स्यादेवं सुन्दरं कृतम् । कर्णे कोणासु⁸(स्तु) पदिका दिक्षु सर्वासु शोभनाः ॥ ९२ ॥ निगूढ⁹विस्तरः कार्यः सार्ध(र्ध)पञ्चपदोन्मितः । द्विपदो निर्गमस्तत्र सर्वदिक्षु विधीयते ॥ ९३ ॥ सलिलान्तरकं कुर्यादन्तरे कर्ण¹⁰भद्रयोः । प्रविष्टं पदमानेन पदपादेन विस्तृतम् ॥ ९४ ॥ ऊर्ध्वमानमथैतस्यै¹¹ यथावदभिधीयते । रोज¹²पीठं विधातव्यं भागार्धेनातिसुन्दरम् ॥ ९५ ॥ ऊर्ध्वभागेन खुरकँ¹³पीठं स्याच्चतुरंशकम् । द्विपदः कुम्भकोत्सेधः पादोनं सोम¹⁴(स्यान्म)सूरकम् ॥ ९६ ॥ भागार्धेनान्तरं पत्रं पादोनांशेन मेखलाः । षड्भागमुच्छ्रिता जङ्घा भागेन ग्रासपट्टिकाँ¹⁵(ः ?) ॥ ९७ ॥ मेखलान्तरपत्रे च प्रत्येकं पदकें¹⁶ स्मृते । पट्टा¹⁷दधस्खुरादूर्ध्वं भागा सैकां¹⁸ दशान्तरम् । (?) ॥ ९८ ॥ रोजा¹⁹सनं पदं प्रोक्तमुत्सेधं(घे)नातिशोभनम् । अर्धेनात्यं²⁰धिके कार्ये द्वे पदे वेदिकोच्छ्रयः ॥ ९९ ॥ १ द. त्रि । २ द. त्र । ३ द. ॰ध्यंगं॰ । ४ द. तः । ५ द. शि । ६ द. न्तः । ७ द. ताः । ८ द. ना । ९ द. निर्गू(र्व्यू-गूर्य)ह । १० द. भद्रकर्णयोः । ११ द. क । १२ द. ग । १३ द. ॰कं । १४ द. नांशगसू॰ । १५ द. का । १६ द. दि । १७ 'पट्टादधः खुरादूर्ध्वं भागास्त्वेकादशान्तरम्' इति स्यात् । द. पट्टादधः खु॰ । १८ द. च्चैका । १९ द. राजसेनं पदे प्रोक्तं उत्सेधेना' । २० द. ॰भ्य॰ ।