समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 422, कुल 726 में से
संदर्भ में पढ़ेंमेर्वादिर्विंशिका नाम सप्तपञ्चाशोऽध्यायः । ३५९ पदार्धमासनं कार्यं द्व्यंशं चन्द्रावलोकनम् । ऊर्ध्वमासनपट्टस्य स्तम्भः पञ्चपदान्वितः ॥ १०० ॥ ( पञ्चपदान्वितः ? ) भरणं स्तम्भशीर्षं च पदेन स्यात् समुच्छ्रितम् । छाद्यकेनावृतं कुर्यात् पदेनैकेन पट्टकम् ॥ १०१ ॥ द्विपदस्थः प्र ( इच्छाच )विस्तारैः पदेनैकेन लम्बनम् । ऊर्ध्वमन्तरपत्रस्य कथयामो यथास्थितम् ॥ १०२ ॥ चतुष्पदेषु कर्णेषु ये कर्णाः पदिकाः स्थिताः । तेषु ³(बिखरकाः ?) कार्या विस्तारोच्छ्रायतः पदम् ॥ १०३ ॥ कलशोनं तथा ग्रीवा पदार्धेन समुच्छ्रितौ । द्विपदः सिंहकर्णस्तु विस्तारोच्छ्रायतः समः ॥ १०४ ॥ ⁵( शिखिरोऽध ? ) विधातव्या त्रिपदी⁶ कर्णमञ्जरी । ऊर्ध्वं च त्रिपदा स (सा) स्याद् द्विपदा स्कन्धविस्तृतिः ॥ १०५ ॥ सार्धभागेन कर्तव्यं सग्रीवं कलशाण्डकम् । सिंहप्रासादवत् कर्णा विधेयाः शुभलक्षणाः ॥ १०६ ॥ मूलमानेन विस्तीर्णा निर्गूं(गू)ढस्योपरि स्थिताः । द्वितीयश्च तृतीयश्च तदूर्ध्वं च समुच्छ्रितः ॥ १०७ ॥ कर्णस्थकलशादूर्ध्वं कर्तव्या मूलमञ्जरी । विस्तारो दशभागांशानु(गःस्यादु)च्छ्रायो द्वादशांशकैः ॥१०८॥ लताभिः पञ्च(वि ?)मिर्युक्ता विचित्रैश्चापि कर्मभिः । षट्पदोऽस्य स्मृतः स्कन्धो ग्रीवा चास्य चतुष्पदा ॥ १०९ ॥ विस्तारेण समाख्याता पादोनं पदमुच्छ्रितां । अण्डकां(कं)¹¹ साङ्घ्रिभागेन (भैवि ?) षड्भागविस्तृतम् ॥११०॥ १ द. प्रतौ नास्ति । २ द. र । ३ द. खिंखुरका कार्या । ४ द. ताः । ५ 'शिखराधो' इति स्यात् । द. खिंखरोर्द्धं वि° । ६ द. दा । ७ द. निर्यूहस्यो° । ८ द. या । ९ द. का । १० द. ताः । ११ द. सां ह्रिं° । १२ द. भवेत् षं° ।