समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 423, कुल 726 में से
संदर्भ में पढ़ेंपादोनं चन्द्रिकाभागं कलशश्च द्वि^२भागिकः । प्रासादं ये सुभद्राख्यं कारयन्ति सुलक्षणम् ॥ १११ ॥ कल्पकोटिसहस्राणि भद्रं तेषां शिवाग्रतः । सुभद्रः ॥ सर्वपापक्षयकरस्त्रिषु लोकेषु कीर्तितैः^३ ॥ ११२ ॥ रिपुकेसरिसंज्ञोऽयं^४ प्रासादः परिकीर्त्यते । चतुरश्रीकृते क्षेत्रे भागविंशतिभाजिते ॥ ११३ ॥ द्विपदा बाह्यभित्तिः स्यान्मध्यभित्तिश्च तावता(ती) । भ्रमणी द्विपदा कार्या विस्तारात् सर्वदिग्गताः(ग्गता)^५ ॥ ११४ ॥ गर्भोऽष्टविस्तृतः कर्णः( ^६+ कन्द ?) सार्धभागिकः । चतुर्भागायतं भद्रं कुर्याद् भागेन निर्गतम् ॥ ११५ ॥ रथकोऽसौ समुद्दिष्टो विधातव्यश्चतुर्दिशम् । पार्श्वयोश्च प्रतिरथौ कार्यौ^८ सार्धपदायतौ ॥ ११६ ॥ पदार्धेन विनिष्क्रान्तौ ^९++ विविधेष्वपि । कर्णीयामश्चतुर्भागो द्विपदं कर्णभद्रकम् ॥ ११७ ॥ पदार्धेन विनिष्क्रान्तं बाह्यकर्णै^१०व्यवस्थितम् । पद(:?)पादेन विस्तीर्णं प्रविष्टं पदमात्रकम् ॥ ११८ ॥ कार्यं जलान्तरं मध्ये कर्णस्य तिलकस्य च । द्व्यंशस्तिलकविस्तारैः^१२ पदेनैकेन निर्गमः ॥ ११९ ॥ सुवर्णिताः^१३ स्युस्तिलका भद्रकोणै^१४व्यवस्थिताः । अष्टभागं भवेद् भद्रं पदत्रयविनिर्गतम् ॥ १२० ॥ चतसृष्वपि तद् दिक्षु कर्तव्यं स्तम्भभूषितम् । ऊर्ध्वमानमथ ब्रूमः प्रतिपत्रं सुखावहम् ॥ १२१ ॥
१ द. भं° । २ द. वि । ३ द. विश्रुततः । ४ द. ऽथ । ५ द. ग्गताः । ६ द. र्भा । ७ द. कर्णः कंदः सार्ध द्वि° । ८ द. कार्यों भद्रप° । ९ द. न्तो विधिरेषरथेष्वपि । १० द. न्या । ११ द. °र्णै । १२ द. र । १३ द. °र्त्ति । १४ द. °णे ।