समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 428, कुल 726 में से
संदर्भ में पढ़ेंमेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३६५ बाह्यात् परस्परं क्षेपमंशोनांशेन योजयेत् । मध्ये लतास्य कर्तव्या १भागषट्केन विस्तृता ॥ १६७ ॥ स्कन्धे द्विपदविस्तारं विदध्यान्मध्यमञ्जरीम् । षड्गुणं सूत्रमादाय लँ२तारेखां समालिखेत् ॥ १६८ ॥ आलेखं३ च ततः कुर्यात् सुशुँद्धं४ भागसुन्दरम् । भागेन वेदिकोत्सेधः षड्भागः स्कन्धविस्तरै(र)ः ॥ १६९ ॥ भागेनैकेन च ग्रीवा द्वाभ्यां५ सामलसारकम् । विशालपद्मसदृशं विधेयं पद्मशीर्षकम् ॥ १७० ॥ चन्द्रिका पद्मपत्राभा द्वयमेतत् पदोच्छ्रितम् । त्र्यं७शः स्यात् (कलशोर्मूत्या जनकैरवकुङ्ग्मलः ?) ॥ १७१ ॥ एवंविधं विधत्ते यः पुष्पकं सुमनोरमम् । तुष्येत् तस्य धनाधीशः शुभैर्याति८ व्रजेच्च सः(?) ॥ १७२ ॥ पुष्पकः ॥ ब्रूमो विजयभद्रस्य सुभद्रस्य च लक्षणम् । वल्लभः षण्मुखस्यायं बहुपुण्यविधायकः ॥ १७३ ॥ चतुरश्रीकृते क्षेत्रे साष्टविंशतिभाजिते । कुर्यादष्टपदं कर्ण( र्णं )भद्रं वास्य चतुष्पदम् ॥ १७४ ॥ पँ१०देनैकेन निर्यातं११ सर्वकोणेष्वयं विधिः । उदकान्तरकं कार्यं पदै१२क्लृप्तं पदायतम् ॥ १७५ ॥ दशभागायतं भद्रं कार्यं त्रिपदनिर्गतम् । दिक्षुँ१३(येव?) विधेयः स्यान्मुखतो मुखमण्डपः ॥ १७६ ॥ त्रिपदा बाह्यतो भित्तिस्त्रिपदा चान्धकारिकौ१४ । मध्ये प्रासादमानं तु कर्तव्यं षोडशांशकम् ॥ १७७ ॥ १ द. भागमेकेन वि० । २ द. ल(त)त्वरेखां समाचरेत् । ३ द. ख्य । ४ द. संयुद्धं सा० । ५ द. ०भ्यामा० । ६ द. ०ताः । ७ द. अंशः स्यात्कलशो मूर्त्या ञ्जि० । ८ द. ०लं । ९ द. ०नैवं० । १० द. पा । ११ द. तः । १२ द. पदक्षुद्रं पदायुतम् । १३ द. दिक्षु विधिरेषः स्यात् । १४ द. काः ।