समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 437, कुल 726 में से
संदर्भ में पढ़ें३७४ समराङ्गणसूत्रधारे पदद्वयं तु कर्तव्यं (हीनंनं ?) सातपत्रकम् । कलशाण्डकयुक्तानामुच्छ्रायस्त्रिपदो बुधैः ॥ कर्तव्यः कर्णशृङ्गाणां सर्वेषामपि मानतः । चतुष्पदोच्चा वलभी घण्टाकलशसंयुता ॥ मल्लच्छाद्यत्रयं कुर्यात् कर्णशृङ्गस्य चोपरि । युक्तमन्तरपत्रेण भागोच्छ्रायं पृथक् पृथक् ॥ भागेनैकेन घण्टा स्याद् भद्रा(भागा)भ्यां कलशाण्डके । समूलकलशे कर्णे सूत्रं सम्पातयेद् बुधः ॥ मल्लच्छाद्यं विधातव्यं सूत्रेणैकेन लाञ्छितम् । प्रासादमेवं पूर्णायुर्यः कुर्याद् भक्तिमानिमम् ॥ (सप्तकामः + ?) पुरुषः स(श)र्वलोके महीयते । पूर्णः ॥ सिद्धार्थमथ वक्ष्यामः सर्वकामार्थसिद्धि(द)म् ॥ कामाः सिध्यन्ति यत्कर्तुरिहलोके परत्र च । चतुरश्रे समे क्षेत्रे विभक्ते दशभिः पदैः ॥ कुर्वीत षट्पदं गर्भं + + चास्य चतुष्पदम् । भागेनैकेन रमणीं बाह्यभित्तिं च भागिकीम् ॥ कुर्वीत द्विपदान् कर्णाञ् शालां षड्भिः पदैर्बुधै(धः) । तदूर्ध्वं कर्णशृङ्गांश्च(ङ्गे च) यथाशोभं प्रकल्पयेत् ॥ त्रिपदं निर्गमं तस्याश्चतुष्कीश्च चतुर्दिशम् । मध्ये बहिश्च कुर्वीत तस्या द्वारचतुष्टयम् ॥ उन्नतं भागविंशत्या मानमस्योर्ध्वतो भवेत् । त्रिपदः पीठबन्धः स्याद् द्विगुणोच्छ्रायबाह्यतः ॥ सार्धं भागद्वयं कार्यो वेदिबन्धस्तु शोभनः । अर्धकुम्भैकमर्दे च मेखलां समस्तूरकः (?) ॥ १ 'आप्तकामः स' इति स्यात् ।