भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 436, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 436

मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३७३ सप्तभागोच्छ्रिता च स्यात्(स्कन्धस्यच शोच्छ्रितिः १ ? ) । स्यादुरोमञ्जरी मूलमञ्जर्या मध्यसंश्रया ॥ भागैश्चतुर्भिर्विस्तारः षड्भिश्चास्याः समुच्छ्रितिः । कलशाण्डकसंयुक्ता कर्णाभ्यन्तरमञ्जरी ॥ स्यादण्डकैकविंशत्या नन्द्यावर्तः सुलक्षणः । भक्त्या ये कारयन्त्येनं नद्यावर्तमनुत्तमम् ॥ विमानं शुभमारुह्य शक्रलोकं व्रजन्ति ते । नन्द्यावर्तः ॥ प्रासादमथ वक्ष्यामः पूर्ण पूरितवाञ्छितम् ॥ वन्दितैः(तं) किन्नरैर्यक्षैर्मनुष्यपितृवल्लभम् । चतुरश्रीकृते क्षेत्रे दशभागविभाजिते ॥ विस्तार(राद्) द्विपदो गर्भः कार्या भित्तिस्तु भागिकः । द्विपदं कन्दभद्रं च निर्गमोऽस्यार्धभागिकः ॥ शोभना दिषु(क्षु) सर्वासु द्विपदा च भ्रमन्तिका । पदिका बाह्यभित्तिस्तु द्विपदा कर्णविस्तृतिः ॥ आयत्या चतुरो (भागावण्डभित्तेर्विनिर्गमा ? ) । भद्रं सुशोभनं तस्या द्वि(वि)धातव्यं द्विभागिकम् ॥ पर्णस्तु पदिका( ? ) पक्षभद्रं भागार्धनिर्गतम् । जलान्तरं तु भागार्धमायामक्षेपयोः समम् ॥ चतुर्भागो वलस्यास्य( ? ) गर्भो भित्तिस्तु भागिकी । यामायुर्वित्तगोस्त्रीणां वलभी कीर्तिकारयेत् ( ? ) ॥ पूर्वतः कारयेद् द्वारं चतुर्गर्भेऽत्र मन्दिरे । ऊर्ध्वमानं तु वक्ष्यामः प्रासादस्यास्य सम्प्रति ॥ पीठं द्विभागिकं कार्यं वेदीबन्धो द्विभागिकः । जङ्घा पदचतुष्कं च शोभिता रूपकर्मणा ॥ १ 'स्कन्धः स्याच्च दशोच्छ्रितिः' इति पाठ्यं स्यात् ।