समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 435, कुल 726 में से
संदर्भ में पढ़ें३७२ समराङ्गणसूत्रधारे एतत्प्रमाणं कर्तव्यमिह प्राज्ञैर्जलान्तरम् । तलच्छन्दानुगं भद्रं नन्द्यावर्तं(र्ते) यथाक्रमम् ॥ ऊर्ध्वमानमथ ब्रूमो नन्द्यावर्तं(र्ते) यथाक्रमम् । सार्धभागद्वयोच्छ्रा( १यामासनं तस्य ?)दूर्ध्वतः ॥ ( २कार्यतुलोदयस्य+?) मध्ये भागैस्तथाष्टभिः । तुलोदयस्य मध्ये स्याद् वेदीबन्धो द्विभागिके (क)ः ॥ भागिकः कुम्भकोसेन( त्सेधो ) मेखलाकलशान्वितः । चतुर्भागा भवेज्जङ्घा भागिकं भरणं भवेत् ॥ मेखलान्तरपत्रे तु भागेनैकेन कल्पयेत् । पादेन राजसेनं स्याद् ( वदूत्तच पट्टतः ? ) ॥ वेदी साष्टपदोत्सेधा भागपादेन चासनम् । भागार्धेन नतं कुर्याद् भागं ( ३पञ्चवलोकत ? ) ॥ पादोनत्रिपदः स्तम्भः पल्लवैरुपशोभितः । हीरग्रहणशीर्षं च कुर्याद् भागसमुच्छ्रिति ॥ पट्टमेकपदोत्सेधं छायकं द्विपदायतम् । भागेन कुर्यादुपरि पट्टिकां चारुकर्मणा(म् ?) ॥ अंशांस्त्रीनुच्छ्रितः सिंहकर्णः स्याच्चतुरायतः । भूषितः( खरसे + न ? ) स च कार्योंऽतिशोभनः ॥ विस्ताराद् द्विपदे शृङ्गे सार्धभागद्वयोच्छ्रिते । अस्योर्ध्वमन्यशृङ्गं स्यात् सहशोच्छ( च )परिस्तुति( : ? ) ॥ प्रत्यङ्गस्तु व(ङ्गेषु च) कूटानि सार्धांशोच्छ्रायवन्ति च । द्वितीयः सिंहकर्णः स्यात् सिंहकर्णस्य मस्तके ॥ ( ४ततो शृङ्गं ? ) तृतीयः स्याच्चतुर्थस्तस्य चोपरि । षड्भागविस्तृता कर्ण( : ? ) कूटस्था मूलमञ्जरी ॥ १ 'यमासनं स्यात् त' इति स्यात् । २ 'कार्यस्तुलोदयस्तस्य' इति स्यान् । ३ 'चन्द्राव- लोकनम्' इति स्यात् । ४ 'ततः शृङ्गे' इति स्यात् ।