भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 445, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 445

३८२ समराङ्गणसूत्रधारे मेखलावेदिकाजङ्घाः शङ्खवर्धनवन्मताः । कर्तव्याः कर्णरथिकास्त्रिपदाः कलशान्विताः ॥ चतुष्किका पञ्चपदा वराटीघटयान्विता । कार्या कलशसंयुक्ता विस्तारोच्छ्राययोः समा ॥ काँणशृङ्गोर्ध्वयः(?) कुर्यादष्टांशां मूलमञ्जरीम् । उच्छ्रिता नवभिर्भागैः पञ्चभौमास्तु संवृताः ॥ प्रथमा द्विपदा भूमिर्हेमकूटक्रियोपमा । अन्यास्तु पदपादार्धहीनाः कार्या यथोत्तरम् ॥ मेहारत्नपुनः(?) कार्यों भूमिकापरिवर्तने । भागेन वेदिकोच्छ्रायः स्कन्धस्तु शतवास्तुवत् ॥ ग्रीवाण्डकसमुत्सेधं विदधीत पदद्वयम् । अण्डके वर्तना कार्या कङ्कतीफलसन्निभा ॥ चन्द्रिका भागमेकं च द्वौ भागौ चेत् + + + + । हंसध्वजः कृतो येन वल्लभः पद्मजन्मनः ॥ स याति विविधैर्यानैर्देहान्ते वसु + गतिम् । हंसध्वजः ॥ अथ लक्ष्मीधरं ब्रूमो यं कृत्वा विजयं नरः ॥ राज्यमायुष्यपूजा च गुणानाप्नोति चैश्वरान् । चतुरश्रीकृते क्षेत्रे भक्ते षोडशभिः पदैः ॥ कर्तव्यः षट्पदः कन्दो गर्भसूत्रचतुष्पदः । चतुसृष्वपि दिक्षु स्यात् त्रिभिर्भागैर्भ्रमन्तिका ॥ द्विपदा बाह्यभित्तिः स्याच्छुभा कार्या चतुर्दिशम् । कर्णेषु शृङ्गमेकैकं द्वे द्वे शृङ्गे तु मध्यगे ॥ द्व्यंशानि तानि विस्ताराद् दशशृङ्गाणि दिक्प्रयेत्(क्त्रये) । षट्शालाश्च विधातव्याः शुभा दिक्षु तिसृष्वपि ॥ १ 'कर्णशृङ्गोर्ध्वतः' इति पाठ्यं भाति । २ 'महान् यत्नः पुनः' इति स्यात् ।