भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 446, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 446

मेर्वादिर्विशिका नाम सप्तपञ्चाशोऽध्यायः । ३८३ याम्येन (च) चतुर्भागा भागद्वितयनिर्गताः । तलच्छन्दोऽयमुद्दिष्टो मण्डपः पुरतो भवेत् ॥ विस्ताराद् द्विगुणा सासः (णो यामः)प्रासादस्यास्य चोच्छ्रयः । स्यात् त्रयोदशभागोऽत्र प्रमाणेन तुलोदयः ॥ ऊर्ध्वं च विंशतिपदं वेदीबन्ध(:) पदत्रयम् । उत्सेधात् षट्पदा जङ्घा भागेन भरणं भवेत् ॥ भागैस्त्रिभिर्मेखले द्वे शृङ्गं च कलशं त्रिभिः । उच्छ्रयेण विधातव्यः सिंहकर्णच(श्च)तुष्पदः ॥ दश शृङ्गाणि कुर्वीत घण्टा(पकं ?)च विक्र(दिक्त्र)ये । चतुर्दशांशविस्तारा पञ्चगा( ?) मूलमञ्जरी ॥ ऊर्ध्वं सप्तदशांशा च ग्रीवोच्छ्रायः पदद्वयम् । अण्डकं द्विपदं कार्यं भागेनैकेन कर्परम् ॥ कलशं त्रिपदं मूर्ध्नि वर्तयेत् सुमनोरमम् । लक्ष्मीधराख्यं प्रासादं यः कुर्याद् वसुधातले ॥ अक्षये स पदे तत्त्वे लीयते नात्र संशयः । लक्ष्मीधरः ॥ महावज्रमथ ब्रूमः प्र(प्रे)त्य पापहरं शुभम् ॥ प्रासादे कारये(रिते) यत्र सुरेन्द्रः परितुष्यति । अष्टौ हस्तान् कनीयान् स्यान्मध्यो द्वादश मानतः ॥ उत्तमः षोडश प्रोक्तस्त्रिधैवं करसंख्यया । खविस्तारस्य सूत्रेण(++ क्षेत्र)मालिख्य वर्तुलम् ॥ कोणेषु लाञ्छितं कृत्वा भागैः षट्त्रिंशता भजेत् । द्विपदाः कर्णिकाश्चेह कार्या द्वादशसंख्यया ॥ कर्णिकाद्वयमध्ये तु स्तम्भो भागे च वर्तुलः । शतपत्राकृतिः कार्या द्वौ भागौ मूर्धमानतः ॥ अधस्तान्मेखलायाश्च कमलोद्भववद् भवेत् । स्तम्भयेत् कर्णिकामध्ये तेषु कूटानि कारयेत् ॥