समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 447, कुल 726 में से
संदर्भ में पढ़ें३८४ समराङ्गणसूत्रधारे कुर्यादालेखमुपरि कर्णिकायाः सुशोभनम् । कर्तव्या भूमयः पञ्च क्रमेणायतयान्विता (?) ॥ स्याद् भागार्धोदया ग्रीवा विस्तारेण चतुष्पदा । अण्डकं सार्धभागेन विधातव्यं सकर्परम् ॥ भागद्वयं तु कलशः शृङ्गकर्णैः सपल्लवैः । यः करोति महावज्रं प्रासादं पुरभूषणम् ॥ तुष्टो दिवि सदाम्पत्यो रमते सोऽप्सरोगणैः । महावज्रः ॥ रतिदेहमथ ब्रूमः प्रासादं सुमनोरमम् ॥ अप्सरोगणसंकीर्णं कामदेवस्य मन्दिरम् । अष्टभागीकृते क्षेत्रे समभागे समायंते ॥ द्विपदं कर्णकूटं स्याद् वारिमार्गसमन्वितम् । अलिन्दस्य चतुर्भागा विस्तारायामतः समाः ॥ भागिकी बाह्यभित्तिस्तु शेषं गर्भं प्रकल्पयेत् । मध्ये चतुष्किका कार्या यत्र स्तम्भाः सुशोभनाः ॥ नेकरका त्रिवक्त्रैश्च हस्ते सर्वैः सपत्रकैः (?) । पल्लवैर्नागबन्धैश्च सालभञ्जिभिरन्विताः ॥ खेल्लिका तत्र कर्तव्या मकरास्यविनिर्गता । चत्वारो बाह्यतोऽलिन्दाः स्तम्भद्वितयभूकुलम् (?) ॥ सदृशं प्रथमं कार्यं भवनं कर्मयुक्तिमत् । द्वितीयं भवनं कार्यं बाह्यालिङ्क(न्द)विवर्जितम् ॥ शेषं कर्म तथा कार्यं प्रथमायां यथा (भवति?) । तृतीयायां पुनः कार्या चतुःस्तम्भा चतुष्किका ॥ खेलिकातोरणन्यस्ता( ः ) संमुखाश्च वरालकाः । स्तम्भानां कुटकन् पूर्वान् सिंहकर्ण(र्णा)श्चमध्यतः ॥ म(ध्य?)लुच्छाद्यानि(वायार्धं?) भागोच्छायान्यनुक्रमात् । त्रीणि कुर्वीत युक्तानि शुभैरन्तरपत्रकैः ॥