समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 448, कुल 726 में से
संदर्भ में पढ़ेंमेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३८९ घण्टां च भागिनीं कुर्यादूर्ध्व(र्ध्वे)नामलसारकीम् । चन्द्रिकां भागपादेन द्विभागां कलशोच्छ्रितिम् ॥ एवंविधं यः कुरुते प्रासादं रतिवल्लभम् । सन्तोषयति कन्दर्पं स्याज्जनेषु स पुण्यभाक् ॥ रतिदेहः ॥ सिद्धिकाममथ ब्रूमः प्रमथैरुपशोभितम् । धनपुत्रकलत्राणि कृते यत्राप्नुयान्नरः ॥ चतुरश्रीकृते क्षेत्रे चतुर्भागविभाजिते । गर्भं द्विभागं कुर्वीत भित्तिर्भा(भा)गेन शोभनम् ॥ भद्रं द्विभागविस्तारं भागेनैकेन निर्गतम् । कर्णमेकेन भागेन कुर्यात् प्रतिदिशं बुधः ॥ अस्योर्ध्वं द्विगुणं कुर्यात् षष्ठभागविभाजितम् । भागे च वेदिकाबन्धं जङ्घा सार्धपदोन्नता ॥ मेखलान्तरद्र(प)त्रे च पादहीनं पदं मते । स्यादुच्छितीश्चामा(?) जङ्घा पादोनं पदपञ्चकम् ॥ त्रिभागविस्तृता ग्रीवा भागपादसमुच्छ्रिता । पदार्धमण्डकं प्राहुः पदपादेन चण्डिकाम् (?)॥ भागस्यार्धेन कलशसमुच्छ्रायो मतः समः । +++गुणसूत्रास्या द्वितीयाः पञ्चभूतिकाः(?) ॥ यः सिद्धिकामं कुरुते सर्वपापविमोचनम् । सर्वेऽस्य कामाः सिध्यन्ति ये केचिन्मनसि स्थिताः ॥ सिद्धिकामः ॥ अथाभिधीयतेऽस्माभिः प्रासादः पञ्चचामरः । यो भक्त्या कारयत्येनं स चिरं दिवि मोदते ॥ भक्ते द्वादशभिः क्षेत्रे चतुरश्रे समन्ततः । चतुर्भागे भवेद् गर्भो भित्तिं भागेन कल्पयेत् ॥ वा. ४९