भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 451, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 451

३८८ समराङ्गणसूत्रधारे। शृङ्गोच्छ्रायस्ततः कार्यः सार्धभागद्वयोन्मितः । मध्येन सर्वशृङ्गाणां मस्तके वृत्तमालिखेत् ॥ षड्भागविस्तृतं तस्य + षड्भागसमुच्छ्रितम् । यावन्मात्राचरेत्(वरे) प्रोक्ता तावत् कार्या च मञ्जरी ॥ त्रिभौमं पञ्चभौमं च विचित्रं कारये(दि)मम् । ग्रीवा स्याद् भागपादेन विस्ताराद् द्विपदायता ॥ पादहीनं पदं कुर्यादण्डकं मनुसंभवे(त् ?) । चन्द्रिका भागपादेन पादोनं कुशलः(कलशः) पदम् ॥ प्रासादं मनसाप्येवं १मनुकीर्तः(र्ण) करोति यः । स गंध्या (गत्वा) भवनं शम्भोर्गाणपत्यमवाप्नुयात् ॥ मानकीर्णः( ? ) ॥ अथ सुप्रभनामानं प्रासादमभिदध्महे । यं कृत्वा प्रभयान्येषां प्रभा हन्ति रविर्यथा ॥ चतुरश्रीकृते क्षेत्रे द्वादशांशविभाजिते । कुर्याच्चतुष्पदं गर्भं विस्तारो यामतः समः ॥ प्रासादार्थं भवेत् कन्दः कन्दभद्रं पदद्वयम् । भ्रमन्ती द्विपदा दिक्षु चतसृष्वपि शोभना ॥ पदिका बाह्यभित्तिस्तु द्विपदा कर्णविस्तृतिः । चतुष्पदं मध्यभद्रं विनिष्क्रान्तं त्रिभिः पदैः ॥ (२अस्यैर्वात) पुनः कार्या द्विपदा तु चतुष्किका । (३सोलायाः ? ) पार्श्वतः कुर्यादतिभद्रद्वयं बुधः ॥ तयोः पादेन निष्कासं पार्श्वयोरुभयोरपि । पार्श्वभद्रस्य कर्णस्य चान्तरं पदिके नयेत् ॥ जालैर्विचित्रितं कुर्यान्मध्ये ज्योतिर्यथा भवेत् । एवं दिक्षु समस्तासु कुर्वीतैनमनुक्रमात् ॥ १ 'मनूत्कीर्ण' इति पूर्वं व्यपदिष्टः । २ 'अस्यैवान्तः' इति स्यात् । ३ 'शालायाः' इति स्यात् ।