समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 450, कुल 726 में से
संदर्भ में पढ़ेंमेर्वादिर्विंशिका नाम सप्तपञ्चाशोऽध्यायः । ३८७ विस्तारसदृशोच्छाया कर्तव्या पूर्वभूमिका । वक्ष्यमाणैर्विभागैश्च विप्रभज्यासणाः + + (?) ॥ भागेन राजसेनं स्याद् वेदिर्भागद्वयेन च । भागेन चन्द्रालोकः स्यादर्धेनासनपट्टकः ॥ स्तम्भोच्छ्रायस्त्रिभिर्भागैस्ततो भागेन शीर्षकम् । पट्टोच्छ्रायो भागमेकं स्याच्चतुर्विंशतिर्धराः ॥ नानासङ्गैः पल्लवैश्च चारुकर्मकराननैः । द्वितीया भूमिका कार्या स्तम्भैः षोडशभिर्युता ॥ एवं भूमौ द्वितीयायामपि कर्म विधीयते । स्तम्भैश्चतुर्भिः संयुक्ता तृतीयायां चतुर्धि(ष्कि)का ॥ नन्दिघोषः कृतो येन (मूर्यं तेजो ?) स जायते । कर्मक्षया तुतुं (त् तनुं) त्यक्त्वा प्राप्नोति परमं पदम् ॥ नन्दिघोषः ॥ प्रासादमभिधास्यामो मनूत्कीर्णं महाद्यु(द्भु)तम् । विमृश्य बुद्ध्या निपुणं निर्मितं प्राक् स्वयम्भुवा ॥ क्षेत्रे षड्भागविस्तारे गर्भे(र्भं) भागचतुष्टये । कुर्वीत वृत्तं मध्ये च नवभिर्वृत्तिमालिका( ? ) ॥ अष्टौ ( च ) रथिकाः कार्याः क्षेत्रे दिक्षु विदिक्षु वा । ऊर्ध्वमानमथ ब्रूमो द्विगुणं द्विपदान्वितम् ॥ (छाद्ययावद्विधातव्या तत्सार्धार्ङ्गकपञ्चकम् ?) । भागानष्टार्धसहितान् कुर्यादूर्ध्वं तुलोदयात् ॥ सार्धभागेन कर्तव्यो वेदीबन्धश्च शोभनः । भागद्वयं ततः सार्धं कार्या जङ्घासमुच्छ्रितिः ॥ भागार्ध हीरकं कुर्यान्मनोज्ञं कर्ति(र्णि)कान्वितम् । मेखलान्तरपत्रे च भागेनैकेन कारयेत् ॥ १ 'सूर्यतेजाः' इति स्यात् ।