भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 456, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 456

मेर्वादिर्विंशिका नाम सप्तपञ्चाशोऽध्यायः । ३९३ अण्डकैः सप्तदशभिः प्रासादो दुर्धरो भवेत् । दुर्धरं यः करोतीह भागा (भर्गा) च्छक्तिं समा (आ)प्नुयात् ॥ कालेन शिवसायुज्यं ('निगधिश्च प्रपद्यते ?) । दुर्धरः ॥ इदानीं दुर्जयं ब्रूमः प्रासादं शत्रुमर्दकम् ॥ यं कृत्वा (दुर्जयं लोके ?) भवेत् क्रीडति च क्षितौ । चतुरश्रीकृते क्षेत्रे पञ्चभागविभाजिते ॥ गर्भं नवपदं कुर्याद् भित्तिः षोडशभागिकी । भागेन कर्णरथिका भागाभ्यां मध्यमे रथः ॥ भागेन निर्गमं (स्त)स्य वि(धि)रेष चतुर्दिशम् । भद्रकर्णान्तरे कुर्याद् वारिमार्गं पदाधिकम् ॥ ऊर्ध्वमानं विधातव्यं (त्वमस्मि ?) दशभागिकम् । वेदिबन्धः सपादांशौ जङ्घांसौ पादसंयुतौ ॥ मेखलान्तरपत्रे तु पदार्धेन प्रकल्पयेत् । शिखरः (शिखिरैः ?) सार्धं भागषट्कोच्छ्रितो भवेत् ॥ त्रिपदः स्कन्धविस्तारो रेखा पद्मदलाकृतिः । भूमयः पञ्च कर्तव्या न्यूनमाना यथाक्रमम् ॥ प्रथमा सार्धभागान्या पदपादोनेत्ता क्रमात् । स्कन्ध(:)पादोन्भागेन स्याद् ग्रीवार्ध(र्धं) पदेन च ॥ अण्डकं त्वेकभागेन कर्परं चार्धभागिकम् । भागोत्सेधस्तु कलशः समवृत्तः सुशोभनः ॥ दुर्जयः क्रियते यत्र पुरे वा नगरेऽथवा । न भवेत् तत्र दुर्भिक्षं न च व्याधिकृतं भयम् ॥ दुर्जयः ॥ ब्रूमस्त्रिकूटं ब्रह्मार्थैः सेवितं त्रिदशैस्त्रिभिः । फलं क्रतुसहस्रस्य येन मोक्षं च विन्दति ॥ १ 'निधने च प्रपद्यते' इति स्यात् । २ 'दुर्जयो लोको' इति स्यात् । वा. ५०