समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 467, कुल 726 में से
संदर्भ में पढ़ें४०४ समराङ्गणसूत्रधारे अष्टादशाण्डकोपेता चतुर्थी परिकीर्तिता¹ । षट्त्रिंशाताण्डकैर्युक्ता मूलरेखा विधीयते ॥ ग्रीवा पदं स्यात् पादोनं सपादं पदमण्डकम् । लवलीफलतुल्यं तच्चन्द्रिका च पदोच्छ्रिता ॥ द्विपदं कलशं विद्यात् समवृत्तं मनोरमम् । अर्धोतु ⁴दू विधातव्यं बुजं तस्य चोपरि(?) ॥ विचित्रभूमिके (सप्तदशँम्मिल्लिरुयराक्षर्णण्यपि ?) । स्तम्भैर्विविधविन्यासैर्बहुभङ्गविनिर्मितैः ॥ भूषितैः कर्मभिश्चित्रैः सर्वत्र शुभलक्षणैः । चन्द्रशालादिसंयुक्तैस्तोरणैश्चारुचामरैः ॥ तथाक्षंतमुखग्रासैर्घनरूपतया स्थितैः । व्यालैर्व्यालोलजिह्वैश्च मकरग्राससंयुतैः ॥ मदान्धालिकुलाकीर्णगजवक्त्रविभूषितैः । विद्याधरवधूवृन्दैः क्रीडारम्भविभूषितैः ॥ सुराणां सुन्दरीभिश्च वीणाहस्तैश्च किन्नरैः । सिद्धगन्धर्वयक्षाणां वृन्दैश्च परितः स्थितैः ॥ अप्सरोभिश्च दिव्याभिर्विमानावलिभिस्तथा । चारुचामीकरान्दोला क्रीडासक्तैश्च (‘निःसराम् ? )⁸॥ नागकन्याकदम्बैश्च सर्वतः समलङ्कृतम् । एवंविधाभिः सर्वत्र भूमिकाभिर्निरन्तरं ॥ अलङ्कृतो विधातव्यो मेरुः प्रासादनायकः । मध्य(म)द्विगुणैर्ज्येष्ठः क(र्तव्यो)मेरुरण्डकैः ॥ कनीयान् मध्यमार्धेनेत्यण्डकस्थितिरीरिता॑ । उत्तमेषूत्तमं न्यस्येन्मध्यमेषु च मध्यमम् ॥ १ द. ताः । २ द. शां । ३ द. क । ४ द. द्ध । ५ द. शा । ६ द. रा । ७ द. कृत । ८ मुद्रित पुस्तके ‘निर्भरम्’ इति स्यात् । परन्तु द. पुस्तके ‘निःसराम्’ एव पाठः अस्ति । ९ द. रां । १० द. ताः ।