भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 468, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 468

मेर्वादिर्विंशिका नाम सप्तपञ्चाशोऽध्यायः । ४०३ (अध)मेष्वधमं लिङ्गमेवमन्येषु धामसु । मेरोस्तु त्रिविधस्यापि लिङ्गमुत्तममृद्धिदम् ॥ अन्यथाविहितं१ +++++दोषकृत् । मेरुं मेरुरूपमं२ दिव्यं यः कारयति पार्थिवः ॥ सं३ प्राप्नोति परां भुक्तिं++++सदाशिवाम् । मेरुं प्रदक्षिणीकृत्य काञ्चनं यत्फलर्द्धिभाक् ॥ शैलेष्टकादारुमये कृतेऽस्मिंस्तत्फलर्द्धिभाक् । मेरुः ॥ (लक्षणं) मन्दरस्याथ प्रासादस्याभिधीयते ॥ सिद्धिप्रदस्य पुण्य(स्य)स्तुतँस्य त्रिदशैरपि । चतुरश्रीकृतेक्षेत्रे ४++ भागविभाजिते ॥ गर्भः कार्यश्चतुर्भागो भित्तिरेकांशविस्तृता । अन्धारिकैकभागेन बाह्यभित्तिस्तु भागिकी ॥ कोणेषु रथिकाः कार्याः पदद्वितयसंमिताः । चत्वारो मण्डपाः कार्याः षट्त्रिंशत्पदसंमिताः ॥ चतुर्दशमलिन्दाश्च विधातव्याश्चतुष्पदाः । भागेन निर्गतास्ते च सर्वतः शुभलक्षणाः ॥ अस्योर्ध्वमानं कर्तव्यं विस्तराद् द्विगुणं बुधैः । कर्णावेधश्च(?) विस्तारसीमा सर्वत्र गृह्यते ॥ प्रासादे मूलमानं यत् तच्च सम्यक् प्रकल्पयेत् । द्विपदं पीठमुत्सेधात् कार्यं प्राङ्मुनतो(मूलतो) बहिः ॥ तत् पद्मैरङ्कितं कार्यं सिंहैरपि च मन्दिरे । पदार्धं खुरकः कार्यः प्रासादसमवर्जितः(?) ॥ सार्धं पदद्वयं कार्यो वेदीबन्धः सुशोभनः । चतुर्भागोन्नता जङ्घा भागार्थं रूपपट्टिका ॥


१ द. 'तं तत्र भवेद्दाग (मा) । २ द. मे । ३ द. स प्राप्नोति पराः भुक्ति मुक्तिं सदाशिवीं परां । ४ द. व । ५ द. दश । ६ द. ॰ह्तं । ७ द. स्रानतो बहिः । ८ द. मुखतः । ९ द. र्ध ।