समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 470, कुल 726 में से
संदर्भ में पढ़ेंविस्ताराद्वैर्न कर्तव्यो वेदीबन्धो विबन्धुरः । षड्गुणेनैव सूत्रेण मध्यरेखां समालिखेत् ॥ द्वितीयामालिखेत् पञ्चगुणितेन विचक्षणः । सार्धत्रिगुणसूत्रेण १++ रेखां समालिखेत् ॥ मञ्जरीभिर्विचित्राभिः सर्वत्रैव विराजितः । प्रासादो मन्दरः कार्यः प्रमाणेनामुना शुभः ॥ मन्दरं मन्दराकारं कृत्वा प्रासादमुत्तमम् । प्राप्नोतीह परं सौख्यं परत्र च शुभां गतिम् ॥ मन्दरः ॥ कथयामोऽथ कैलासमशेषसुरसेवितम् । ३प्रमथप्रवरैर्जुष्टं प्रासादं पुण्यवर्धनम् ॥ चतुरश्रीकृते क्षेत्रे शतधा प्रविभाजिते । शाला षड्भागविस्तारा कर्तव्या भागनिर्गमा ॥ (४कलात्रिभागिका कुर्यात् सलिलान्तरसंयुतान् ?) । (आरभ्य ब्रह्मणः स्थानात् समा इव पादद्वयम् ?) ॥ भ्रमयित्वा समं वृत्तं ५गैर्भं(गर्भमंशं) प्रकल्पयेत् । ६तथा भित्तिर्विधातव्या समन्तादर्धभागिका ॥ भागिका बाह्यभित्तिः स्यात् (कार्या स्याद् ?) भद्रभूषिता । अन्तराले७ तु सर्वत्र विदध्यादन्धकारिकाम् ॥ अलिन्दकाश्चतुर्भागाः कर्तव्या दिक्त्रये बुधैः । भागद्वयेन निष्क्रान्ताः सर्वतः शुभलक्षणाः ॥ (८चतुर्थीकां ?) विधातव्यास्तेषु स्तम्भद्वयान्विताः । मुखे तु मण्डपः कार्यः स्तम्भपङ्क्तिविराजितः ॥ अथोर्ध्वमानं वक्ष्यामः कैलासस्य यथास्थितम् । पीठं तस्य पदे द्वे तु कर्तव्यं गणभूषितम् ॥ : १ द. कर्णे । २ द. मञ्जरः । ३ द. प्रथमं । ४ द. कलान् त्रिं । ५ द. गर्भं संप्र° । ६ द. ततो । ७ द. ०ल्ये । ८ द. चतुर्थ्यै को वि°; मुद्रित पुस्तके तु; 'चतुष्किका' इति स्यात् । ९ द. नव° ।