भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 471, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 471

४०८ समराङ्गणसूत्रधारे पदस्यार्धेन कर्तव्यः खुरकस्तु खुरादिति(?)। तदूर्ध्वं द्विगुणा ज्ञेया प्रासादस्य समुच्छ्रितिः॥ एकेन कुम्भकः कार्यो भागेन समवर्जितः¹। मसूरकस्तु भागेन पादोनेन विधीयते ॥ कार्यं पदस्य पादेन ततश्चान्तरपत्रकम् । मेखलार्धपदेन स्याच्च²न्द्रेशालाविभूषिता ॥ जङ्घा तदूर्ध्वं कर्तव्या सार्धं पदचतुष्टयम् । भागेनैकेन कुर्वीत मेखलान्तरपत्रकम् ॥ कर्णशृङ्गं त्रिभिर्भागैः कुर्यात् सकलशाण्डकम् । तदूर्ध्वं द्विपदानि स्युः ³कूटान्युच्छ्रायमानतः ॥ पूर्वोक्तानाममीषां च प्रक्षेपः स्यात् पदां(शतः)। चतुर्धा कूटविस्तारं ⁴संविभज्य पदद्वये ॥ (⁵संद्रस्यादितिक्तयनि?) सिंहक्रान्तानि कारयेत् । विस्तारं मूलमञ्जर्याः कुर्यात् षड्भागसंमितम् ॥ सप्तभागिकमुच्छ्रायं कैलासेऽस्याः प्रकल्पयेत् । भागार्धेन भवेद् (भाग?) भागिकोच्छ्रायमण्डकम् ॥ ⁷चण्डिकामर्धभागेन कलशं सार्धभागिकम् । कुर्वीत शिखरं चास्य स्वस्तिकस्य यथोदितम् ॥ युक्तं भूमिभिरष्टाभिर्मञ्जरीभिरलङ्कृतम् । सिंहकर्णैर्विचित्रैश्च भद्राण्यस्य विभूषयेत् ॥ कर्तव्यः स्कन्धविस्तारस्तस्मिन् पदचतुष्टयम् । विदधीत समालेखसूत्रेण त्रिगुणेन च ॥ एवं +++++कैलासं ⁸विदधाति यः । विभूतिं लभते सोऽत्र सुखसौभाग्यसंयुताम् ॥ १ द. ॰र्तिंतः। २ द. ॰न्द्रं। ३ द. कुं। ४ द. स। ५ द. भद्रं स्यादिति कूटानि। ६ द. तां। ७ द. वंदिं। ८ द. सं। ९ द. त।