भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 486, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 486

मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ४२३ सिंहकर्णश्च कर्तव्यः स्व+¹ भागे समुन्नतः । ऊर्ध्वतः कर्णशृङ्गे²(स्य) विधेया मूलमञ्जरी ॥ (³सावषो विस्तरो++)पदान्यष्टादशोच्छ्रिनाः (?) । चतुर्दिशं समायामः स्कन्धः स्यान्नवभागिकैः⁴ ॥ मञ्जर्यार्द्धांशपुरेमनः(?) शुकनाससमुच्छ्रितिः । ग्रीवा+मेन भागेन कुर्याद् द्विपदमण्डकम् ॥ चण्डिकां सार्धभागेन त्रिपदं कलशोच्छ्रयम् । ⁶+++ यन्नरः कश्चिन्मुक्तकोणं महायशाः ॥ (सं)प्राप्नो ते मं⁷हासौख्यं विमुक्तः सर्वपातकैः । सर्वद्वन्द्वविनिर्मुक्तः सर्वकिल्बिषवर्जितैः ॥ सर्वपापविनिर्मुक्तो भोगं मोक्षं च विन्दति । मुक्तकोणः ॥ श्रीवत्समथ वक्ष्यामः प्रासादं सुरपूजितम् ॥ चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते । षड्भिर्भागैर्भवेद् ग र्भो भित्तिः कार्या द्विभागिकी ॥ रथकं त्रिपदं कुर्यात् प्रत्यङ्गात् सार्धभागिकात् । द्विपदं कर्णमस्याहुर्विदिक्षु चतसृष्व.⁵पे ॥ भागार्धं क्षोभणा क्षेपात् तदर्थार्धं जलान्तरम् । प्रक्षेपः स्यात् पदार्धेन पदमानस्य बाह्यतः ॥ ९द्वे पदे निर्गतं चास्य शुकनासं नि(वे )शयेत् । वास्तुविस्तारपादेन कर्तव्या द्वारविस्तृतिः ॥ द्वारोच्छ्राय(स्तुं)विस्तारात् कर्तव्यो द्विगुणो बुधैः । ऊर्ध्वमानमथ ब्रूमः श्रीवत्सस्य यथोदितम् ॥ १ द. स्व । २ द. ङ्गैं । ३ द. सा च थो पदान्यष्टा द । ४ दं. षिकः । ५ द. न्द्रि । ६ द. प्रतौ नास्ति परन्तु मुद्रितपुस्तके 'निर्माण्यन् नरः' इति स्यात् । ७ द. महत् । ८ द. सद्वन्द्व । ९ द. ताः । १० द. स्य ।