समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 487, कुल 726 में से
संदर्भ में पढ़ें४२४ समराङ्गणसूत्रधारे पीठं प्रासादपादेन खुरकश्च पदार्धकैः । विस्ताराद् द्विगुणं१ ( चार्ध ?) कर्तव्यं कुम्भकादितः ॥ अंशैर्द्वादशभिस्तेषु कुर्याच्छिखरमायनम् । अष्टभागं तुलोच्छ्रायं वेदी सार्धद्विभागिकी ॥ कुम्भकं पदिकं कुर्यात् पादोनांशं३ मसूरकम् । ( पादोनं पादेन स्यात् ? ) मेखलान्तरपत्रकम् ॥ चतुर्भागोच्छ्रिता जङ्घा भागार्ध हीरकं भवेत् । मेखलान्तरपत्रं तु भागेनैकेन कारयेत् ॥ षड्भागविस्तृतं स्कन्धं भाजयेद् दशभिः पदैः । यथा मूले तथा स्कन्धेऽप्यङ्गप्रत्यङ्गकल्पना ॥ स्कन्धपार्श्वे तु या रेखा व्यक्ताश्च स्कन्धबाह्यतः । भजेत् ता दशभिर्भागै( रूढ ? )मेवं विभा/जयेत् ॥ ( ऊर्ध्वाधः प्रतिभागस्तन्त्रास्यात् ? ) पत्रसंहतिः । तदाकृतिं बाह्यरेखां गात्रे गात्रे प्रकल्पयेत् ॥ अनुमात्रगुणं सूत्रं त्रिभागेन समन्वितम् । भ्रमयेत् ( कोणरेखा स्यात् प्रत्यङ्गेऽस्नत्रपञ्चकान् ? ) ॥ षड्गुणेन तु सूत्रेण रथरेखां समालिखेत् । अत्र स्युर्भूमयः सप्त प्रथमांशद्वयोच्छ्रिता ॥ द्वितीया पदपादार्धहीना भूमितस्ततो भवेत् । पादद्वयं भागहीनं तृतीयायां भवेद् भुवि ॥ सार्धभागविहीनं च चतुर्थी स्यात् पदद्वयम् । पञ्चमा सार्धभागेन पदं स्यात् स्कन्धशीर्षकम् ॥ एवं परस्परं भागं पादार्धेन( जिता ? ) भुवः । त्रिभागीकृत्य शिखरं तत्रैकं भागमुत्सृजेत् ॥ १ द. द्वि। २ द. 'णं चोद्ध्र्वं कं०। ३ द. 'स' इति अधिकः पाठः। ४ द. स्थ। ५ द. ॰मन्त्रि०। ६ द. सूत्रं।